________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
४२८
*************
सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ।।८०० ।। सर्वमिति भणित्वा विरतिः खलु यस्य सर्विका नास्ति पूर्वप्रवर्तितकर्मारम्भानुमतिसद्भावात् स सर्वविरतिवादी 'चक्क चुक्क व्यथने' चुक्कति व्यथयति देशविरतिं सर्वविरतिं च । गृहिणोऽप्यागमे त्रिविधं त्रिविधेन प्रज्ञप्त्यामुक्तमस्ति, तत्कथम् ? उच्यते - जई किंचि अप्पओयणमप्पप्पं वा विसेसियं वत्युं । पच्चखिज्ज न दोसो सयंभुरमणाइमच्छव्व ॥ १ ।
'अप्रयोजनं' काकमांसादि 'अप्राप्यं' 'विशेषितं वस्तु' मेर्वादिगतम् ।
जो वा निक्खमिउमणो पडिमं पुत्ताइसंतइनिमित्तं । पडिवज्जिज्ज तओ वा करिज्ज तिविहंपि तिविहेण । २ । पुत्रादिसन्तत्युपरोधेन 'प्रतिमां' अभिग्रहविशेषं प्रतिपद्येत ततो वा त्रिविधं त्रिविधेन कुर्यात् ।।८०० ।। साधुसामायिकाशक्तेन गृहिसामायिकमपि बहुफलत्वात् कार्यमेवेत्याह
सामाइयम्मि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा ।।८०१ ।।
स्पष्ट । ।।८०१ ।। किञ्च -
जीवो पमायबहुलो बहुसो वि य बहुविहेसु अत्थेसु । एएण कारणेणं बहुसो सामाइयं कुज्जा ।।८०२ ।।
आ. नि.
सा. नि. 'कस्य'द्वारम्
गाथा८००-८०२
४२८