________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
४२५
तु स एव सामायिकादिगुणः सामायिकम्, यतो जीवस्यैष गुणः । यथा तैलस्य धारा, न हि धारायाः पृथक् तैलम्, एवं न गुणादतिरिक्तो जीवस्तन्न स सामायिकम् ।।७९२ ।। अथ पर्यायार्थिकमतं समर्थयन्नाह -
उप्पज्वंति वयंति य परिणमंति य गुणा न दव्वाइं । दव्वप्यभवा (य) न गुणा न गुणप्पभवाइं दव्वाई ।।७९३ ।।
उत्पद्यन्ते व्ययन्ते च उत्पादव्ययरूपेण परिणमन्ति गुणा, न द्रव्याणि तस्मात्ते एव सन्ति, न तदतिरिक्तानि द्रव्याणि । तथा द्रव्यप्रभवा द्रव्यजन्या न गुणाः । न च गुणप्रभवाणि गुणजन्यानि द्रव्याणि । तन्न कारणत्वं नापि कार्यत्वं द्रव्याणाम्, तन्न सन्त्येव तानि । सतः कारणकार्यरूपत्वात् । ततो गुण एव सामायिकम् । द्रव्यार्थिकनयोऽपि अनयैव गाथया स्वमतं समर्थयति । गुणा असत्कल्पाः । यतः उत्पद्यन्ते व्ययन्ते च । उत्पादव्ययरूपेण परिणमन्ति च गुणा एव, न द्रव्याणि ततस्तान्येव सन्ति सतताऽवस्थितत्वात् । द्रव्यप्रभवाश्च गुणाः द्रव्यार्थिकनयमते 'दव्वप्यभवा य गुणा' इति पाठः । द्रव्ये सति प्रभवो गुणानां तेषां द्रव्याधारत्वात् । न च गुणेभ्यः प्रभवो द्रव्याणाम् न हि तानि गुणाधाराणि तस्माद् द्रव्यभूत आत्मैव सामायिकम् । ।।७९३ ।। अथानयोः किं प्रमाणमित्याह - जं जं जे जे भावे परिणमड़ पओग वीससा दव्वं । तं तह जाणेइ जिणो अपज्जवे जाणणा नत्थि ।।७९४-७९५ ।। हारिभद्रीयवृत्ती इयं (७९४) गाथा 'तथा चागम' इति अवतरणिकया पुनः दर्शिता व्याख्याता चास्ति । अस्याः पुनर्दर्शितायाः तत्र ७९५ क्रमाङ्को विहितः । अत्र तु न पुनः व्याख्याता नापि दर्शिता । तद्वृत्या सह गाथाक्रमाङ्कसन्धानार्थं इह अस्या गाथायाः द्वो क्रमाङ्को विहितो (७९४-७९५)
-
आ.नि. सा.नि.
纖
* 'किं' द्वारम् ।
गाथा७९३-७९५ ४२५