SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आ. नि. आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४२० दृष्ट्वा प्रविश्य वन्दित्वा सोऽवदद्दत्त मे व्रतम् । इच्छन्ति साधवस्तं न लोचं चक्रेऽथ स स्वयम् ।७। गुरुर्ददौ ततो वेषं व्यहार्षीद्गुरुरन्यतः । पुनस्तत्रैयुषां तस्य राजाऽदाद्रत्नकम्बलम् ।८। आचार्य: स्माह साधूनां किमेतेन किमग्रही: । मूर्छया तु स तद्धत्ते गुप्तं परिभुनक्ति न ।९। अन्यदा तमनापृच्छय गुरुस्तद्रत्नकम्बलम् । निषद्याः कृतवान् पाटयित्वा सोऽथ कषायितः ।१०। अन्यदा गुरुभिः श्रेष्ठा वर्णिता जिनकल्पिका: । शिवभूतिरथाऽप्राक्षीदीदृशैर्भूयते न किम् ।११। गुरुरूचेऽधुना स्थातुं शक्यते न विनोपधिम् । जिनकल्पो व्यवच्छिन्नः स ऊचेऽहं करोम्यमुम् ।१२। सोऽथ सेयॉ गुरौ मुक्त्वा सर्वमप्युपधिं ययौ । उद्यानस्थस्य तस्याऽथो तत्राऽऽगाद् वन्दितुं स्वसा ।१३। तादृशं तं समालोक्य साप्यनावरणाऽभवत् । दृष्टा भिक्षाप्रविष्टा सा वेश्यया सा व्यचिन्तयत् ।१४। मा भूल्लोको विरक्तो नस्ततोऽस्याः साटकं ददौ । सा नैच्छद् बान्धवेनोक्ता ग्राह्योऽयं देवताकरात् ।१५।। कौडिन्यः कोष्ठवीरश्च द्वौ शिष्यो तेन दीक्षितौ । ततः शिष्यप्रशिष्यायेविस्तृतास्तेऽपि बोटिका: ।१६। अमुमर्थं भाष्यकारोऽप्याह - भा. ऊहाए पन्नत्तं बोडियसिवभूइउत्तराहिं इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पन्न ।।१४७।। १. 'तत्रेयुषां' ल, ल प । २. किमग्रहीत् ल । ३. शिष्यः प्रशिष्या... ल । 準準準準準準準準準準準準準準準準準準準準準準準準準準準華 सा. नि. नयसमवतार द्वारे अष्टमो निह्नवः शिवभूतिः बोटिकः । गाथा-७८३ भा. गाथा१४७ ४२० ******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy