________________
********
आवश्यक
होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो य तहा कारणमसरीरया चेव ।।७४६ ।।
निर्युक्तिः
शुभज्ञानात् शुभे प्रवृत्तिः । अशुभज्ञानादशुभेभ्यो निवृत्तिर्भवति । ते च प्रवृत्तिनिवृत्ती संयमतपसोः कारणं संयमात्पापकर्माऽग्रहणम्, श्रीतिलका- नवकर्मानादानम् । तपसः सकाशात्कर्मविवेकः पूर्वार्जितकर्मनिर्जरा । कर्मनिर्जरा च कारणं अशरीरताया एव ।।७४६ । । विवक्षितमर्थं
चार्यलघुवृत्तिः
* हेतुहेतुमद्भावेनाह -
३६४
कम्मविवेगो असरीरयाय असरीरया अणाबाहा । होअणबाहनिमित्तं अवेयणमणाउलो निरुओ ।।७४७।। कर्मविवेकोऽशरीरतायाः कारणम्, अशरीरताऽनाबाधायाः कारणम्, अनाबाधा च निमित्तं कारणमवेदनस्य, अवेदनोऽनाकुलोऽनाकुलश्च नीरुक् ।।७४७ ।। तथा
निरुत्तयाए अयलो अयलत्ताए य सासउ निचं । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ।।७४८ ।। स्पष्टा । इत्थं पारम्पर्येणाऽव्याबाधसुखार्थं सामायिकश्रवणम् ।।७४८ ।। प्रत्ययद्वारमाह - पचयनिक्खेवो खलु दव्वंमी तत्तमासगाइओ । भावंमि ओहिमाई तिविहो पगयं तु भावेणं ।।७४९ ।।
*************
आ. नि.
* सामायिकनिर्युक्तिः कारणद्वारम् ।
गाथा ७४६
७४९
*****
३६४