________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३०४
****************************
चेइदुमपेढछंदय आसणछत्तं च चामराओ य । जं चऽन्नं करणिज्जं करंति तं वाणमंतरिया ।। ५५३ ।।
चैत्यद्रुमोऽशोकवृक्षः । तस्याधः पीठं स्थटकं तस्योपरि देवछन्दकं रत्नमयं तन्मध्ये सिंहासनं तदुपरि छत्रत्रयं चामरे च यक्षहस्तगते । चशब्दाद्धर्मचक्रं च ।।५५३ ।। समवसरणकरणे सर्वत्राऽयं विधिरित्याह -
साहारणओसरणे एवं जत्थिड्डिमं तु ओसरइ । इक्कु चिय तं सव्वं करेइ भयणा उ इयरेसिं । । ५५४ ।।
साधारणसमवसरणे एवं यथोक्तो विधिक्रमः । यत्र ऋद्धिमान् इन्द्रसामानिकादिः पुनः समवसरति समवसरणं करोति, तत्रैक एव तत्प्राकारादि सर्वं विधत्ते । 'भयणा उ इयरेसिं' तु यदेन्द्रा नागच्छन्ति, तदा इतरेषां भवनवास्यादीनां भेजना समवसरणं कुर्वन्ति वा न वा ।। ५५४ ।। तत्र किं स्यादित्याह -
सूरोदय पच्छिमाए उग्गाहंतीइ पुव्वओ एइ । दोहिं पउमेहिं पाया मग्गेण य हुंति सत्तने ।। ५५५ ॥
सूचकत्वात् सूत्रस्य तत्र देवनिर्मिते समवसरणे सूर्योदये प्रथमपौरुष्यां अपराह्ने पश्चिमायां 'उग्गाहंतीइ' अवगाहमानायां आगच्छन्त्यां पूर्वतः पूर्वद्वारेण एति प्रविशति । कथमेति ? द्वयोर्देवकृतयोः सुवर्णपद्मयोरुपरि पादौ न्यसन्, 'मार्गतश्च' पृष्ठतो भवन्ति सप्त चान्ये पद्माः सञ्चरन्तश्च । प्रभोर्यद् यत्पश्चिमं पद्मं तत् तत् पुरतो भवतीत्यर्थः । । ५५५ ।।
*******
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता समवसरणम् ।
गाथा - ५५३
५५५
३०४