________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
२७६
************
मगहा गोबरगामे गोसंखी वेसियाण पाणामा । कुम्मागामायावण गोसाले कोवण पउट्ठो ॥। ४९३ ।। ततः कूर्मग्रामसमीपं गतः । तस्य च बहिर्वैशिकायनो बालतपस्वी आतापयति । तस्योत्पत्तिरुच्यते - मगधेषु श्रिया कृत्वा चम्पां राजगृहं तथा । अन्तरा गोबरग्रामो ग्रामोऽपि नगराधिकः ॥ १ ॥ गोशङ्खीनाम तत्राऽऽसीत् कुटुम्बी ग्रामनायकः । हारान्तर्नायक इवाच्छिद्रोऽपि सगुणः पुनः ॥ २ । तस्य बन्धुमती भार्या बन्धुरा बन्धुवत्सला । निःफ[ष्फ] लाऽशोकशाखेव पुष्पवत्यपि या परम् । ३ । इतश्च तस्य ग्रामस्याऽऽसन्नग्राममरातयः । अस्वामिकमिवोल्लुण्ट्य बन्दान्यादाय चैयरुः ॥४। नवप्रसूता तत्रैका नारी मारितभर्तृका । सा निरुद्धा रतिरिव गृह्यते स्म सपुत्रका ॥५॥ गच्छद्भिश्चाग्रतस्तैः सा त्याजिता तं स्तनन्धयम् । पदबन्धनकल्पा हि डिम्भाः स्युः पादचारिणाम् |६| रूपार्थं गतस्तत्र गोशङ्खी पश्यति स्म तम् । जगृहे चाथवा दृष्टं चिन्तारत्नं क उज्झति ॥७॥ दत्तश्चात्ममहेलाया गोपयित्वा रहस्यवत् । प्राकाशयन लोके मे गूढगर्भाऽभवत्प्रिया ॥८॥ ततो नवप्रसूतेषा स्थापिता साऽन्तरौकसः । सुमात्रिकाप्रवेशादि चक्रे जन्मोत्सवोऽखिलः | ९ | तत्रैधमानः स श्वेतपक्षनक्षत्रनाथवत् । त्यक्तलब्धोऽपि लोकेन ज्ञातस्तज्जात एव तु । १० । हारान्तर्नायकः 'हारनो मुख्य मणको' इति भाषायाम् । * नक्षत्रनाथः चन्द्रः ।
*****
आ.नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
गोशालः ।
गाथा- ४९३
२७६