________________
******
आवश्यक
निर्युक्तिः
ममाऽपत्यजीवातुः ? स ऊचे स्वं मृतापत्यं सशोणितं रन्धित्वा पायसीकृत्य सुतपस्विने दद्याः । गृहद्वारमन्यमुखं कुर्याः । माऽसौ तं ज्ञात्वा धाक्षीत्, एवं ते स्थिरमपत्यं भावि । गोशालोऽपि तदेव गृहं गतः । तया तेन प्रतिलाभितः । तद्भुक्तम्, पश्चात्प्रभोः कथितम्, असत्यं वो श्रीतिलका- निमित्तम् । सिद्धार्थेनोक्तं नाऽसत्यम्, यदि न प्रत्येषि ततो वमयित्वा पश्य तेन तथाकृतम् । दृष्टाश्चाऽऽमिषलवाः । ततो रुष्टः । 'दारगणि चार्यलघुवृत्तिः लक्खवाले' तद्गृहद्वारमलक्षयन् 'प्रभुतपःप्रभवाग्निना तं प्रदेशमखिलमज्वालयत् । ततः स्वामी हरिद्रकग्रामं गतः । तत्र च बहिः हरिद्रुमोऽस्ति । * तस्याऽधः प्रभुः प्रतिमया स्थितः । तत्र चाऽऽवासितैः पथिकैः शीतार्ते रात्रावग्निर्ज्वलितः । ते च रात्रिपाश्चात्यप्रहरे गताः । स चाऽविध्यापितो वह्निर्ज्वलन् स्वाम्यान्तिकमाऽऽगात् । गोशालेनोक्तं स्वामिन्नपसर । प्रभुस्तथैवाऽस्थात् । गोशालो नष्टः स्वामिपादौ मनाग्दग्धौ । ।४७९ ।।
२६८
ततः -
***********
तत्तो य णंगलाए डिंभ मुणी अच्छिकड्ढणं चेव । आवत्ते मुहतासे मुणिउत्ति य बाहु बलदेवो ।।४८० ।।
ततः स्वामी लाङ्गलग्रामं गतः । तत्र वासुदेवाऽऽयतने प्रतिमां प्रपन्नः । गोशालोऽपि स्थितः तत्र डिम्भरूपाणि क्रीडन्ति सन्ति । तर्जन्या स्वाक्ष्णोरधः प्रदेशताडनेन विकृताक्षो भूत्वा गोशालों भापयति । ततस्तानि नश्यन्ति पतन्ति रुदन्ति, केषाञ्चित् घर्घरका भज्यन्ते । अथ तन्मातापित्रादीन्याऽऽगत्य गोशालं कुट्टयन्ति । देवार्यस्य दासोऽयमतस्तस्य क्षम्यत इति मुञ्चन्ति । ततः प्रभुरावर्तग्रामे १. प्रभुतपःप्रभावाग्निना प प ल छ ।
आ.नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
गोशालः ।
गाथा- ४८०
२६८