SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ * * * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः * २५७ ददंश दन्दशूकोऽथ निःशूकः पादयोः प्रभुम् । परं प्रभो वज्रसारे दंशदंश इवाऽभवत् ।१११। दृष्ट्वा दृष्ट्वा क्रुधातीवाऽपचक्रामाऽथ दृग्विषः । मूर्छितो मद्विषेणैष निपतन्मा ममोपरि ।११२ । शैलवनिश्चलं वीक्ष्य विलक्षोऽथ पुरः स्थितः । पश्यन् मूर्ति प्रभोः शान्तसुधारसमयीमिव ।११३ । निर्विषाक्षः क्षणाजज्ञे ततस्तं स्वाम्यवोचत । चण्डकौशिक ! बुध्यस्व बुध्यस्व ननु मा मुह ।११४। तत्समाकर्ण्य तस्याहेरूहापोहादजायत । जातिस्मृतिस्ततः स स्वं निन्दनक्षमयत्प्रभुम् ।११५ । प्रदक्षिणात्रयं दत्वा स्वाम्याग्रेऽनशनं व्यधात् । रुष्टो मा स्म हनं सत्त्वान् क्षिात्वा तुण्डं बिले स्थितः ॥११६ । स्वाम्यस्थात् कृपया तस्य दृष्ट्वा प्रभुमुपागमन् । गोपालवत्सपालाद्या वृक्षाद्यन्तरिता: स्थिताः ।११७। जघ्नुस्ते लेष्टुभिस्त्वेष चित्रस्थ इव नाऽचलत् । विश्वस्तास्ते उपेत्याऽथ यष्टिभिस्तमघट्टयन् ।११८ । तथाप्यविचलन्तं तं ते लोकस्य न्यवेदयन् । अथाऽऽगत्य प्रभुं लोका नत्वाऽहिं तमपूजयन् ।११९ । घृतविक्रयिकास्तं च म्रक्षयन्ति स्पृशन्ति च । अथैत्य घृतगन्धेन कीटकास्तमुपाद्रवन् ।१२०। वेदनामधिसेहे तां कर्मक्षयसहायिनीम् । सोऽहिर्विपद्य पक्षान्ते सहस्रारे सुरोऽभवत् ।१२१ । 举羊羊羊羊羊藥華藥業準準準準準準準準 雖藥藥華藥華藥華藥業 आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता चण्डकौशिकः गाथा-४६६ २५७ KKKKK • दंशदंशः-दंशः मशकः तस्य दंशः इति दंशदंशः ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy