SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १९२ स्पष्टा ।।३६१।। अथ किमभूदित्याह - अन्यदा भगवानष्टापदाद्रौ समवासरत् । भरतोऽपि प्रभुं नन्तुं ययावानन्दनिर्भरः ।१। शकटानां पञ्चशतीमाऽऽनाय्याऽऽहारसम्भृताम् । न्यमन्त्रयत्ततो भक्त्या सकुटुम्बमपि प्रभुम् ।२। स्वाम्यूचे राजपिण्डोऽयमाधाकर्माऽऽहतं तथा । अस्माकं युज्यते नैतदपथ्यमिव रोगिणाम् ।३। विषण्णोऽथाऽवदश्चक्री लुब्धोऽहं बन्धुराज्यहत् । चक्रे पूज्यैरपाङ्तेयः किमेतन्मत्कृतस्य वा ।।। स्वाम्यूचे मा विषीद त्वं व्यवस्था रागिणामियम् । अस्माकं वीतरागाणां नोष्णं किञ्चिन्न शीतलम् ।५। शक्रः स्वामिनमप्राक्षीत्तद्विषादोपशान्तये । अवग्रहाः कति स्वामिन् भगवानाह पञ्चधा ।६। शक्रचक्रेशराष्ट्रेशवेश्मवद्यत्यवग्रहाः । तदाकर्ण्य प्रणम्योचे देवेन्द्रस्त्रिजगत्पतिम् ।७। मयात्मावग्रहः स्वामित्रनुज्ञातोऽनगारिणाम् । भरतोऽपीन्द्रवत् सौवमन्वज्ञासीदवग्रहम् ।८। चक्री शक्रमथाऽप्राक्षीत् कथं कार्यमिदं मया । भक्तं भूरि समानीतं शक्रस्तस्योपदिष्टवान् ।९। गुणाधिकेभ्यो राजेन्द्र ! तद्विश्राणय भक्तितः । बीजमुप्तं हि सुक्षेत्रे जायते शतमेधिकम् ।१०। . स्वसम्बन्धिनमित्यर्थः । * एधिकं - वृद्धम् । 藥華藥業举業準準準準準準準準準準準準 आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामि वक्त. माहणोत्पत्तिः। गाथा-३६१ १९२ *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy