SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रबलपरवलप्रयुक्तानेकतीक्ष्णक्षुरप्रहारप्रकरण दण्डादिच्छेदनाद्यस्य स तथा, ततः पदचतुष्कस्य कर्मधारयः, अथवा-हयमथिता:-अश्वमर्दिताः, प्रवरवीरा यस्य घातिताश्च सत्यो विपतिताश्चि ध्वजपताका यस्य स तथा तं, 'दिसोदिसं'ति-दिशो दिशि सर्वत इत्यर्थः, 'पडिसेहंति'त्ति-आयोधनाद्विनिवर्त्तयन्ति निराकुर्वन्तीत्यर्थः, 'अधारणिज्जं'ति-अधारणीयं धारयितुमशक्यं परवलमितिकृत्वा; अथवा-अधारणीयं-अयापनीयं यापना कर्तुमात्मनो न शक्यत इतिकृत्वा, 'निस्संचातिद्वारापद्वारः जनप्रवेशनिर्गमवर्जितं यथा भवति, 'निरुचारं'-प्राकारस्योर्ध्व जनप्रवेशनिर्गमवर्जितं यथा भवति, अथवाउच्चारः-पुरीष, तद्विसर्गार्थ यजनानां बहिर्निर्गमनं तदपि स एवेति तेन वर्जितं यथा भवत्येवं सर्वतो-दिक्षु समन्तात्-विदिक्षु, 'अवरुध्य'-रोधकं कृत्वा तिष्ठन्ति स्मेति, रहस्सिएति-रहसिकान् गुप्तान् , 'दूतसंप्रेषान्'-दूतप्रेषणानि, 'पविरलमणूसंसित्ति-प्रविरलाः मनुष्याः मार्गादिषु यस्मिन् सन्ध्याकालसमये स तथा तस्मिन् , तथा-'निशान्तेषु'-गृहेषु, 'प्रतिनिश्रान्ता'-विश्रान्ता यस्मिन् मनुष्या इतीह द्रष्टव्यं, स तथा त्रत, अथवा-सन्ध्याकालसमये सति तथा तत्रैव यः प्रविरलो मनुष्यो-मानुषजनो मार्गेषु भवति तत्र निशान्तेषु प्रतिनिश्रान्ते इत्यर्थः, 'जह तावे'त्यादि, यदि तावदस्याहारपिण्डस्यायं परिणामः अस्य पुनरौदारिकशरीरस्य कीदृशो भविष्यतीति सम्बन्धः, इह च 'किमंग पुण'त्ति-यत्क्वचिद् दृश्यते, ततः 'इमस्सपुणत्ति पठनीयं वाचनान्तरे-तथादर्शनात; 'कल्लाकल्लिं'ति-प्रतिदिनं 'खेलासवेत्यादि,-खेल-निष्ठीवनं, तदाश्रवतिक्षरतीति खेलावं तस्य एवं शेषाण्यपि पदानि, नवरं वान्तं-वमनं पित्रं-दोषविशेषः,शुक्र-सप्तमो धातुः, शोणितं-आवं ACARAIजIANS
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy