SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Piसिद्धानां विशेपाव कोट्याचार्य वृत्ती SRORSCOR नित्यत्वं ॥५६३॥ ॥५६३॥ ऽभिप्रेतः, तत्र किमेकान्तेनात्मनः क्रियते ?, यत्कृतकत्वादनित्यत्वाभिप्रायस्ते स्यात् , नन्वयमेवात्मकर्मवियोगः क्रियत इति, दृष्टश्चायमतः कर्मणोऽनित्यत्वादनित्यतेति, तच्च न, यतो नहि घटमात्रविलये सति आकाशविनाशः, घटाकाशविभागाभावात् , विभागाभावोऽपि कपालाकाशसंयोगोऽनिवृत्त एव यतोऽतः किमस्य कृतं स्यात् ?, तदात्मशातितकर्मपुद्गलसंयोगोऽनिवृत्तस्तल्लोकव्याप्तेस्ततश्चामुक्त है इति, तच्च न, यतः–'सो'इत्यादि । स पुनर्बध्यते न बन्धकारणाभावाद् अनपराधवत्, योगत्रयं च बन्धहेतुरभिधीयते, न च तत्त| स्यास्त्यशरीरत्वाद्, अमूर्त्तत्वात्, विशिष्टश्चेह बन्धननामकर्मप्रत्ययो बन्धोऽधिक्रियते, न सर्वलोकापनकर्मपुद्गलसंयोगमात्र इति ॥ 'न पुणों इत्यादि स्पष्टा ॥१७-२०॥ प्रयोगमाह-'दव्या इत्यादि । स मुक्तो नित्यो मतः, कथं , द्रव्यतया, ततश्च नित्यो मोक्षः, द्रव्यत्वे सति अमूर्त्तत्वादाकाशवत् , द्रव्यग्रहणं क्रियादिव्यवच्छेदार्थ, अमूर्तग्रहणं तु घटादेः, आह-सर्वगतत्वापत्तेर्धर्मिविशेषविपरीतसाधनाविरु| द्धस्तथा हि सर्वगतो मुक्तस्तत एव हेतोस्तद्वदिति, तन्न, अनुमानेन बाधितत्वात, तथाहि-नायमात्मा सर्वगतः कर्तृत्वादिभ्यः कुलालवत्, कर्तृत्वाद्यसिद्धमिति चेन्न, प्रभूततरदोषप्रसङ्गात् । सिद्धान्तस्थितिमाह-'को वा'इत्यादि । को वाऽयं नित्यग्रहः आवयोर्मुक्तात्मविषयो ?, यतः सर्वमेव सद्विभवभङ्गस्थित्यात्मकं, अतः पर्यायात् पर्यायान्तरमात्रार्पगान्नित्यानित्यव्यपदेशः क्रियते वस्तुनः, तथाहिमृतपिण्डाकारपर्यायतयोपरमन्ती घटाकारव्यपदेशं लभते, घटाकारतयोपरमन्ती कपालशर्करीपाश्वादिव्यपदेशं लभते, मृत्तया त्वस्या न किञ्चिदुत्पन्नं न विनष्टमास्ते वा, जीवोऽपि पुरुषपर्यायतया निवर्तते सिद्धपर्यायतयोत्पद्यते, तत्रापि द्विसमयसिद्धपर्यायतयोत्पद्यते प्रथमसमयसिद्धतया व्येति, जीवत्वद्रव्यत्वोपयोगतस्त्वस्य किमुत्पन्नं विनष्टमास्ते वा ?, निर्विकल्पकत्वाद् द्रव्यस्य ॥२१-२२॥ पृच्छत्यस्य RECOREAM
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy