________________
विशेषाव
उपक्रमः
कोव्याचार्य
PRAKAA
॥५॥
किंच-श्रीहरिभद्रसूरिकाले विद्यायां अम्बाकूष्मांड्यादि मंत्रे च विद्याराजः हरिणकमिषी इत्युक्तेः तेऽर्वाचीनाः, श्रीकोट्याचार्याः कूष्मांडी विद्यां मंत्रं च हरिणैकमिषिमेवोल्लिखंति, ततोऽपि प्रत्ना एवैते, यद्यपि अस्यांशस्य प्रसाधनार्थ सुष्ठूच्यते गुरुणेति ६२४ वचसा केषांचिद् भवति भ्रमो यत् श्रीमन्तः भगवद्भाष्यकृतां शिष्याः, अभ्युश्चयेयुश्चैनं पक्षं पूज्यास्तु व्याचक्षते (५४) यञ्चोक्तं छलच्चुप इति तद् अवेयकापान्तरालमधिकृत्येति गुरना (७८९) पूज्यपादाः (३५८) इत्यादिना, परं २२४ पृष्ठे 'भाष्याननुयायि पाठान्तरमिदं, न चेदं भूयसीषु प्रतिषु दृश्यते' इति स्पष्टोल्लेखात् अयुक्ता तत्कल्पना, कदाचिदस्य प्रक्षिप्तत्वाभिमानः, परं केषुचित् पुस्तकेषु सुतकरणंति पाठः तदपि चिंत्य (९३४) इति पाठस्यानन्यगतिकत्वात् श्रीमद्भ्यो जिनभद्रगणिक्षमाश्रमणेभ्यो बहोः कालाद् भाविन पते इति न तदन्तेवासिनः, अत एव च सत्यामपि व्याख्यायां स्वोपज्ञायां कृतिरेतस्याः, बहुकालत्वं च शताब्द्याः प्राग, तथाच श्रीजिनभद्रक्षमाश्रमणान्तेवासिनामन्तेवासिता यदि श्रीमतां कोट्याचार्यमिथाणां स्यान्न कोऽपि बाधः,युज्येत चैवं सति गुरोनिरुपपदनाम्नः केवलनाम्नो वोच्चारणस्य निषेधात् कुत्रापि श्रीजिनभद्रगणिक्षमाश्रमणानां तथा नाम्नोऽप्रसूतिः,(१) पूज्यपादाः (३५८)पूज्यपादाः (९५४) पूज्यास्तु, यावत् समाप्तावपि श्रीमत्पूज्यैरकारि इत्यादिषु केवलविशेषणद्वारव निर्देशः, मंगलस्थाने च स्तुत्यधिकारात् श्रीजिनभद्रक्षमाश्रमणार्का इति स्पष्टमेव नाम्नोऽभिधानं, तत्र सोपपदत्वेनाभिधानात् , पवंच शाखान्त्यभागे ज्ञानक्रियानयचर्चा श्रीहरिभद्रीयवृत्तिगततचर्चया सदृशां दृष्ट्वा न भ्रान्तव्यं, उभयोरपि श्रीजिनभटपादमूलत्वात् , टोकायामपि २६५ क्षमाश्रमणटीकायां त्वित्थं २८२ क्षमाश्रमणटीकाऽपीयमिति चौपाधिकेन नाम्नैव वक्तुनिर्देशः, श्रीजिनभद्रक्षमाश्रमणसंतानत्वादेव च (४२६) पृष्ठे वृत्तेः-सूत्रविवरणस्य व्याख्यानं वार्तिकं यथेदमेव विशेषावश्यकमित्युक्त्वा भाष्यमेनत् वृत्तिव्याख्यानस्य शेखरतां प्रापयामासुः, एवं च पूर्वधरेणावाप्यस्य क्षमाश्रमणपदस्य लब्धारः श्रीजिनभद्रक्षमाश्रमणाः तत्पौत्राश्चमे कोट्याचार्याः, तत्पूर्वजाताश्च श्रीमन्तो जिनभटाचार्यास्तद्वृत्त्यनुसत्रश्च श्रीमन्तः कोट्याचार्या हरिभद्रसूरयश्चेति श्रीमतां कोट्याचा र्याणां हरिभद्रसूरीश्वराणां च पूर्वव्युच्छेदकालासन्नत्वं निर्भरमेव, विशेषस्त्वेतदीयो विशेषेक्षणात् । एवं च श्रीकोट्याचार्या दशमशताव्द्यां श्रीवीरस्य बभूवांस इत्यधुना निर्विवादं ॥
EX