________________
विशेषाव० कोव्याचार्य
वृत्ती
॥५२६॥
| नेनेति प्रत्ययस्तेनाप्रत्ययस्तदप्रत्ययस्तस्मात् , एतदुक्तं भवति-तेन दृष्टान्तविज्ञानेन स्वविषयस्यात्मनशोभयक्षणिकतायाश्चानिश्चितत्वात्त- मिलाद| द्विज्ञानमात्मानमपि नावबुध्यतेऽहमस्मि क्षणिकमिति, नहि प्रत्यक्षगम्या सा, अतस्तस्यान्यपरिज्ञानं दूरोत्सारितमेवेत्यसिद्ध एवासौ हेतुः, 3 निरासः
अपिच-न चास्य स्वविषयमात्रभङ्गप्रतिपत्तिरपि तत्समानकालोपरतत्वात्, तथाहि-यदि स्वविषयं विनश्यन्तं दृष्ट्वाऽन्यं पश्येत् स्यादियं | प्रतीतिरयमनित्य इति, नान्यथा ॥२१५५॥ 'जाणेज्जेत्यादि ॥स्यात् पूर्वविज्ञानवासनायोगादन्यविज्ञानविषयस्वभावभङ्गादिप्रतीतिः,
॥५२६॥ तच्च न, यतोऽसावपि वास्यवासकयोः संयोगे सति दृष्टा, न तु जन्मानन्तरहतस्य वासकत्वं युक्तं, अभावीभूतत्वात् , अपिच-वाप्तनाऽपि क्षणिकाऽक्षणिका वेति वक्तव्यं तस्मात्सर्वक्षणिकवादिना, वादिना-'बहु'इत्यादि ।। युगपद्बहुविज्ञानपुरुषोऽभ्युपगन्तव्यः, तथा च सत्य| भ्युपगमहानिः, अथवैकस्यानेकार्थताऽभ्युपेया, युगपदिति वर्त्तते, विज्ञानस्य वाऽनल्पकल्पाग्रशोऽवस्थानमभ्युपगन्तव्यं, प्रतीत्यवृत्तिविघातो वाऽभ्युपगन्तव्यः, कारणधर्मासंक्रान्तिपक्षो वा मोक्तव्य इति अर्थस्मरणात् ॥५६-७॥ 'विन्नाणे'त्यादि।विज्ञानलक्षणविनाशे दोषा इत्यादयः प्रसजन्ति स्मरणाद्यभावादयो, निर्मलत्वात्, व्यतिरेकमाह-ननूत्पादव्ययध्रौव्यवत्यात्मनि अतीतानेकविज्ञानाहितसंस्कारवशात स्मरणादिप्रवृत्तेः । सिद्धान्तस्थितिमाह-'तस्से'त्यादि स्पष्टा । अत एव-'निचो'इत्यादि ॥ आत्मन्यधिष्ठातरि नित्य एतेषां गुणानां सन्तानः, तस्मात् युज्यते आर्हतानामुत्पादव्ययधौव्ययुक्तं सदिति वक्तुं, नतु बौद्धानां यत्सत्तदनित्यमिति, यस्माच सर्वावरणक्षये केवलमुक्तं तद्भावेनानन्तं, तस्मात्सर्वं यद्यथाऽवस्थितं तज्ज्ञायत इति, तस्माजातिस्मरणदृष्टान्तादपि देहाधिकः सिद्धोजीवः ॥५८-६०॥ 'सों इत्यादि, स यद्येवं कस्माद् घटविट(चटका)न्यायेन न दृश्यते ?, उच्यते-'गौतम ! दुविहाणुवलद्धीओ अमुत्तसुहुमाहिं 'सा यत्ति सा च मन्यमानाऽनुपलब्धिद्विविधा-असतः सतश्च । आद्यामाह-'असओ'ति असतः खरविषाणस्य, सतोऽतिद्रादिभिः, तदिह सूक्ष्मा
ॐAC5
२०ECACROCAR
%90%