________________
चतुथों
'नेउण' इत्यादि ॥ अश्वमित्रस्याणुप्रवादे पूर्व नैपुण्यं वस्त्वधीयानस्य प्रतिसमयं निरन्वयनाशप्रतिपत्तिर्जाता, एकसमयादिविच्छेदविशेषावत कोट्याचार्य सूत्रतः । तथाहि-'उप्पा' इत्यादि पुब्बद्धं । इह सर्वमेव वस्तूत्पादानन्तरं 'सर्वथा' सर्वात्मना विनाशि, कुतः ?, सत्वाद् घटवत्,
निवः वृत्तौ
तथाहि-कूटनित्यत्वे क्रमयोगपद्याभ्यामर्थक्रियाविरोध इत्यादि बहुवक्तव्यमेतत्, एतत्प्रतिसमाधानाय गुरुवचनमत्र, गुरुराहेत्यर्थः,
एतदेकान्तसमुच्छेदनिबन्धनं मिथ्यात्वं, एकनयमतत्वाद् उभयसंमतैकनयमतान्तरवत्, 'न सव्वमयं' ति न पुनरिदं सर्वनयसंमतं, ॥६९९॥
॥६९९॥ अन्यनयनिरपेक्षतयाऽऽश्रीयमाणत्वादुभयप्रसिद्धनयमतान्तरवदेव ॥ तत्रैतत्स्याद्-इदमेव सर्वनयसम्मतमित्यत आह-'नहीं'त्यादि । नहि नैव सर्वयोत्पादानन्तरं वस्तुनो विनाश एव युक्तः, किं कारणं?, अत्रोत्पत्तिग्रन्थमाह-'अद्धा' इत्येकः समय सैव पर्यायोऽद्धापर्यायः स एव तन्मात्रं तस्य नाशस्तस्मिन्, प्रथमसमयनारकत्वपर्यायमात्रोच्छेदादित्यर्थः, एनदुक्तं भवति-तन्नारकवस्तु यस्मिन्नेव || समये प्रथमसमयनारकत्वेनोच्छिद्यते तस्मिन्नेव द्वितीयसमयनारकत्वेनोत्पद्यतेऽवतिष्ठते च, किंस्वरूपस्य ?-स्वपरपर्यायानन्तधर्मणः, द्रव्यक्षेत्रकालभावापेक्षयेति भावना । एवं स्थिते पराभिप्रायमाह-'अहं' इत्यादि ।। अथ मतिः-आगमप्रमाणाबाधा, अतः 'सुत्ताओं' त्ति सूत्रादुत्पत्यनन्तरं सर्वसमुच्छेदो युक्तः, उभयोरविगानात्, विगाने च भवतोऽपि मिथ्यादृष्टित्वप्राप्तेः । अथागमपरिणामनाभिज्ञः सूरिः प्रतिपक्षनयमाश्रित्योत्तरमाह-ननु सूत्रे 'द्रव्यार्थतया' अच्छिन्नच्छेदनयार्थतया वस्तु शाश्वतमपि निर्दिष्टं, अत एवोक्तम्-एकनयमतमेतदिति, मया तु न त्वयेवावधारण क्रियते येनाहमपि मिथ्यादृष्टिः स्याम् ॥ इदानीमश्वमित्रव्यामोहसूत्रेणैव तव्यामोहनिर्दलनायाह
'एत्थवी'त्यादि।। अत्रापि-'एकसमयोत्पन्ना नारका व्यवच्छेदं यास्यन्तीति सूत्रे न सर्वथा-सर्वात्मना निरन्वयनाशो-व्यवच्छेदो 3/ गम्यते शब्दार्थविद्भिः, किं कारणमित्याह-समयादिविशेषणोपादानात, किमुक्तं भवति ?-'पढमसमयउप्पण्णा नारया वोच्छिजिस्संति'
*********
***