________________
विशेषाव
दयः
वृत्ती ॥६११॥
'सव्वे'त्यादि ॥ अपिच नायुष्कप्रकृतेरेवायं धर्मः, अपि तु सर्वप्रकृतीनां-ज्ञानावरणाद्यानामुपक्रमः-संवर्तनं स्यात् , कुतः |
देशकाला४ इत्याह-परिणामवशाद्-अध्यवसाननिमित्तात् , किंविशिष्टानामित्याह-'प्रायोऽनिकाचिताना' बाहुल्येन कारणचतुष्टयापोषितानां, ला प्रायोग्रहणं तु युक्तमेव, यत आह-तवसा उणिकाइयाणंपि' संवर्तनं भवति, उक्तं हि- "पुन्धि खलु भो ! कयाणं कम्माणं | वेइत्ता मोक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता' (दश०) तस्मात् प्रभूततरकालवेद्यकर्मणस्तपसा ह्युपक्रमणं, इति स्थिते सत्याह
॥६११॥ | 'कम्मोइत्यादि ॥॥ क्रियत इति कर्म, वर्षशतं यावत् प्रसार्यत इत्यर्थः, तत्कर्म वर्षशतवेद्यं यद्यप्राप्तकालमप्युपक्रम्यते-यद्यपान्तराल | एव दशमे वर्षे क्षप्यते ततोऽकृतागमकृतनाशौ प्राप्तौ, तथाहि-नियतकालादाराद्विना कर्मणा फलप्राप्तेरकृतस्य कर्मणम्तत्फलमित्यक
तागमः, यच्च तस्मिन् काले परिपाटीलग्नं तन्नष्टमिति कृतनाशः, एतदुक्तं भवति-अकृतसंवर्तनाभ्यागमः कृतप्रसारणविनाशः, तदेवं डच सति अमोक्षश्चानाश्वासदोषश्च तो प्राप्नुतः, तत्रामोक्षदोषः कृततत्साधननाशाद् अकृततत्साधनाभ्यागमात् , तथा यथाऽस्य जन्तोर-४
कस्मादकृतसंवर्तनाभ्यामकृतप्रसारणनाशः, एवं सिद्धस्याप्यकस्मादकृतकर्मसंश्लषेण कृतमोक्षनाशोऽस्तु अतोऽनाश्वासो मोक्षं प्रति, अपि च-उपक्रमवादिन् ! भवतः कृतं कर्म नश्यत्यकृतं चेति, अप्राप्तकालेऽपि भुज्यमानत्वात् , बालदारकवृद्धत्ववत् दत्तदण्डबन्धनवत् अनपराधबन्धनबच्च, उच्यते, नैकान्तिको हेतुः, विपक्षेऽपि भावात् , तथाहि-न मम तथा, उपक्रम्यापि भुज्यमानत्वात् कोष्ठागारीकृतवर्षशतभक्तभस्मकव्याधिमदेकदिवसोपयुक्तधान्यादेरिवेति । आह च–'नहीं'त्यादि। 'नहि नैव तस्य कर्मणो दीर्घकालिकस्यापि प्रभृतकालवेद्यस्याप्यपान्तराले क्षप्यमाणस्योपक्रम्यमाणस्य नाशः-अननुभवनं येनायं दोपः स्यात् , कुतः १ इत्याह-क्षिप्रमनुभूते:द्रुतं सर्वस्यैव निझरणात् , कस्येवेत्याह-बहुकालाहारस्येवेति सेतिकाफलभोगेन वर्षशताहारस्यैव 'दुतं' शीघ्र 'अग्निरोगिणः'