________________ A विशेषाव कोव्याचार्य वृत्ती // 3 // तथाहि-प्रगतमाहुर्जीवादिषु पदार्थेष्वन्तादन्तमनेकपा सम्यग्वाचकत्वेनावगाढत्वाद, प्रधानं श्रीमन्महावीरवर्धमानखामिवचनपदीपा-12 भिव्यक्तत्वात् , प्रशस्तं प्रशस्तचेतोवृत्तेर्जनकत्वात्, आदौ वचनं माग्वचनत्वात् 'नमस्तीर्थाय' इति वचनात्, एतद् द्वादशागणिपिटकम् , पीठिका. यद्वा प्रवक्तीति प्रवचनं तदुपयोगानन्यत्वेन चतूरूपः श्रीश्रमणसङ्घभट्टारक इत्यर्थः, प्रणमनं प्रणामः पूजा नमस्कारो वन्दनमिति // 3 // पर्यायाः, कृतः प्रक्चनप्रणामो येन मया सोऽहं कृतप्रवचनप्रणामः, तेनैतदुक्तं भवति-विहितार्हदुपदेशोपचारः, तस्य हि सकलपारलौकिकव्यवहारसाधनेऽन्तरङ्गत्वात् , “तप्पुब्विया अरिहया" इत्येवमादिवचनात् , किंविशिष्टम् 1 अत आह-'चरणगुणसंगहंति 'चर् गतिमक्षणयोरिति, चर्य्यते इति चरणं, मुमुक्षुभिरासेव्यत इत्यर्थः, अथवा चर्यते-गम्यते प्राप्यतेऽनेन संसारोदधेः परं कूलमिति चरणं, तच्च रात्रिभोजनविरतिषष्ठानि पञ्च महाव्रतानीति, आह च-"वयसमणधम्मसंजम" इत्येवमादि, तथा 'गुणगण संख्याने गुण्यन्त इति गुणाः, ते च पिण्डविशुखादय इति, आह च-"पिंडस्स जा विसोही" इत्येवमादि, अथवा चरणशब्देनोक्तलक्षणक्रियारूपं | देशादेशमेदतो वेषा चारित्रं सम्बध्यते, गुणशब्देन तु दर्शनज्ञाने, संगृहीतिः संग्रहः, चरणं च गुणौ च चरणगुणाः तेषां संग्रहश्चरण गुणसंग्रहस्तं, स चाधुनैकदेशमंग्रहोपि सम्भाव्यत इत्यत आह-'सयलं'ति, कला अंशा अवयवा इति पर्यायाः, सह कलाभिः | सकलो-निःशेषः, पारमार्थिकगुणाकाडनेन सम्पूर्ण इत्यभिप्रायः, कथं', सामायिकाध्ययन एव द्वादशाङ्गार्थपरिसमाप्तः, वक्ष्यति च"सामाइयंपि तिविहं सम्मत्त" इत्येवमादि। किसामुना नसंगृहीतमिति, अतस्तं। तत्रैतत्स्याद्-यो द्यावश्यकानुयोगःस चरणगुणसंग्रह एव, तस्यातत्त्वे तच्चायोगात्, ततश्चापाथकं विशेषणमिति, उच्यते, सत्यम् , अयुक्तं विशेषणमिति चेत्, तन्त्र, व्यवच्छेद्यस्याभावेऽपि खरू 1 गुण मामन्त्रणे (चु. उ. सेद) 2 गुणगमं च्याते (आदर्श) RREKHA ARCARRRRRRRRRRAK