________________ 34 विशेषाव कोखाचार्य गौतमगणधरः // 498 // // 498 // 20EXERCIA स च विज्ञानघनस्तान्येव भूतान्यालम्बनभूतानि विनश्यन्ति सन्ति विनाशव्यवधानमाञ्जि सन्त्यावृतिभाजि वा सन्ति 'क्रमशः' | परिपाट्या 'विज्ञेयभावेन' नीलाधवबोधेन 'विनश्यति व्येति, कदेत्याह-'अर्थान्तरोपयोगे पीताद्यवबोधोत्पत्तौ सत्यां, आत्मना | त्वजहवृत्तिरेवास्त इति, तथा ह्येक एवायं त्रिस्वभावस्थितिरिति, आह च-पुवावरे'त्यादि गतार्था। 'न प्रत्ये'त्यादि व्याचष्टे 'नय' इत्यादि / / न च प्रेत्यज्ञानसा ' न च प्रगतनी नीलादिविज्ञानसञ्जाऽवतिष्ठते 'संपओवओगाओं ति वार्तमानिकपीताद्याकारोत्पत्ताविति, अर्थाद्विभक्तिपरिणतिः, एतद्विमितत्वात्तस्याः, अतः 'विन्नाणे'त्यादि भावार्थकथनम् // 'एवंपी'त्यादि / स्याद् बुद्धिः| एवमपीति एतेभ्य इत्यनेन प्रकारेण भूतधर्मो विज्ञानघनः प्रसजति, विषयभावभावित्वादिति, तन्न, यतः तदभावेऽपि विषयात्यये|ऽपि विज्ञानं श्रुतावुक्तम् "अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुषः 1, आत्म ज्योतिः सम्राडिति होवाच" ज्योतिरिति ज्ञानमाह, आत्मैव ज्योतिरस्य सोऽयमात्मज्योतिर्ज्ञानात्मक इतियावत्, अतो न ज्ञानं भूतधर्मः, | अमुमेवार्थमाह-'अत्थमिते'इत्यादि गातार्था / इतश्च-'तद'इत्यादि ॥न भूतधर्मो विज्ञानधनः, तदभावे भावात् तद्भावेऽपि चाभावा द, दृष्टान्तमात्रमाह-यथा घटस्य न पटो धर्मों, विपर्ययात् , प्रयोगः-विवक्षितधर्मिधर्म एव विज्ञानघनः, तद्भावभावित्वाद् घटरक्तता|| वद्, व्यतिरेकेण तु शून्यत्वमिति गाथार्थः // 2078 // 'एसिंगाहा // 'जाई त्यादि // एवममीषां गौतमेत्यादि. हे गौतम! त्वं वेद| पदानामर्थ न वेत्सि, अथवा सर्वेषामपि, यतोऽभिमन्यसे 'अत्थो एएसिं होज्ज किं श्रुतिः, किं वेदपदस्य शब्दपदमेवार्थो, यथा भेरीशब्दोऽयमित्येतावन्मानं, उत विज्ञानं, यथा मेरीशब्दो, घट इति वा, उत वस्तुभेदो यथा श्रुतिज्ञानानन्तरमूर्ध्वकुण्डलौष्ठायत- | o वृत्तरूपाथ घट इति प्रत्ययः, उत जातियथा गौरिति, उत द्रव्यं यथा दण्डी, उत क्रिया यथा धावतीति, उत गुणः यथा शुक्ल इति,