________________ गौतमगणधरः वृत्तौ // 488 // विशेषाव०४ | // 2048 // मूलतः फलमादर्शयन्नाह-'जो इत्यादि // यश्च कर्चा देहस्य, आदिशब्दाचादानादि परिगृह्यते, स जीवो वर्तते, अत्र || कोट्याचार्य है परमतमाह-'सज्झविरुद्धोत्ति ते मती होज्ज' त्ति, इत्येवं मविभवेद् भवतो यदुतायं हेतुःसाध्यस्य विरुद्धः साध्यविरुद्धः, किम तं भवति ?-विद्यमानस्वामिकाख्यसाध्यधर्मविशेषविपरीतसाधनः, कुतः 1 इत्यत आह-'मृ दिप्रसङ्गात् मृत्तिमत्त्वसंघाता॥४८८॥ | नित्यादिमत्त्वप्राप्तेदृष्टान्तसामर्थ्यात्, अत्रोत्तरमाह-'तन्नों ति तदेतन्न भवति, यतोऽयं मूर्तिमत्वादिप्रसङ्गः संसारिणः अष्टविधकर्ममलपटलाच्छादितस्य जन्तोः 'अदोषः' नापराधः, इष्टत्वात्, इष्टसाधने च विरुद्धो भवतीति यदि परं भवत इदमस्माभिराकणितमिति | गाथार्थः / / 2049 // इतश्चेत्याह-'अत्थी'त्यादि / अस्त्येव तव जीवः हे सौम्य ! 'संशयतः संशयसद्भावात्, इह यत्र 2 सद. सत्त्वसंशयस्तदस्ति, यथा स्थाणुपुरुषो, यथेह स्थाणुपुरुषयोरूर्वतारोहपरिणाहादिसामान्यप्रत्यक्षतायां चलनवयोनिलयनादिविशेषाप्रत्य|क्षतायां चोभयविशेषस्मृतौ च सत्यामेकतरविशेषोपलिप्सोः किमिदमिति विमर्षः संशयः, तथाऽऽत्मशरीरयोरपि प्रागुपलब्धसामान्यविशेषस्य तयोः सामान्यप्रत्यक्षताया विशेषानुस्मृतौ च सत्यामेकतरविशेषोपलिप्सोः किमयमात्मा शरीरमात्रमिति विमर्षः खलूभयविषयो नात्मशरीरयोरेकतराभाव इत्यस्ति जीवः, तत्रैतत्स्याद्-एकतराभावेऽपि संशयो दृष्टस्तद्यथा-स्थाणुमात्र एवेति किमयं स्थाणुरुत पुरुषः ? इति, न च तदा तत्र पुरुषोऽस्तीति, अलौकिकमेतत्, इदमाशझ्याह- गौतम ! यद्वस्तु संदिग्धं यदधिकरणस्ते संशयस्तद्वस्तु तत्र वा प्रदेशेऽन्यत्र वा 'अस्ति' विद्यते 'ध्रुवं' अवश्यमित्येतदेव लौकिकं, एतदुक्तं भवति-न मस्तत्रैवोभयमवश्यं, अपि तु तत्र वाऽन्यत्र वा विद्यमानयोरेव तयोः संशयजनकत्वं, नाविद्यमानयोः, एवमात्मशरीरयोरपीति कोऽत्र तेऽपरितोष इति गाथार्थः | // 2050 // लन्धावसरः प्राह-एवं' मित्यादि // एवमिति यदि यत्संशयनिमित्तं तदस्तीत्युपपाद्यते नामेति निपातः, ततः खर LOCALGARH