SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य GAOECOM / 171 // 'कत्तो मे इत्यादि, कुतो मम वर्णयितुं शक्तिः श्रुतज्ञानस्य सर्वाः प्रकृतीः१, तासां बहुत्वात् , उक्तं च-"जे अक्खराणुसारेण 13 अक्षरश्रुतं मतिविसेसा तयं सुयं सव्वं / तेवि य मतीविसेसे सुयणाणमन्तरे जाण // 1 // उक्कोसयपुव्वधरोवि भणतिणहु ते तु सोऽभिलप्पेवि / कमवत्तिणी य वाया कालो य पहुप्पए ण य से // 2 // " यतश्चैवमतः चतुर्दशविधनिक्षेपं 'श्रुतज्ञाने' श्रुतज्ञानविषयं, चशब्दात् श्रुताज्ञान // 17 // विषयं च, अपिशब्दादुभयविषयं च, तत्र श्रुतज्ञाने-सम्यक्श्रुते, श्रुताज्ञाने-असंझिमिथ्याश्रुते उभयश्रुते-दर्शनपरिग्रहविशेषादक्षरानक्षरश्रुते वेति 'वक्ष्ये' अभिधास्ये इति गाथौघार्थः // 449 // 'पयडि' गाहाव्याख्या प्रकृतिरिति सूत्रालापकः, किमुक्तं भवति ?यः 'तदंश' सूत्रांशः सा प्रकृतिरुच्यते, अथवा तस्य-श्रुतस्य यो हेतुः-बाह्यः आलोकादिरान्तरो पा क्षयोपशमादिः सोऽयं 'तत्स्व. भावो वा' श्रुतस्वभावो वा ध्वनितालक्षणः, सैषा, ते च तदंशाः अनन्ताः, अतः सर्वे न शक्यन्ते वक्तुं, परिमितत्वादायुष इत्येवमादीति गाथार्थः // 450 // तथा च-'जावन्तो' इत्यादि, यावन्तो वचनपथाः श्रुतानुसारेण केचन लभ्यन्ते ते सर्वे श्रुतमित्येतदावेदितं | माङ् मतिश्रुतभेद इति, ते च श्रुतमतिपर्यायाः // 451 // इत्यतः–'उक्कोस' इत्यादि, क्षुण्णा // 452 // एवमवस्थिते व्याख्यानस्य प्रस्तुतत्वात किश्चिनिक्षेपमाह-'नाणमी'त्यादि, व्याख्यातार्थे / / 453-454 // 'अक्वरेत्यादि, द्वाराणि चतुर्दशेति आद्यद्वारं व्याचिख्यासुराह न क्खरइ अणुवओगेऽवि अक्खरं सो य चेयणाभावो / अविसुद्धनयाण मयं सुद्धनयाणक्खरं चेव // 45 // उवओगेऽवि य नाणं सुद्धा इच्छंति जं न तविरहे। उप्पायभंगुरा वा जं तेसिं सव्वपज्जाया // 456 // अभिलप्पावि य अत्था सव्वे दवट्ठियाए जं निच्चा / पजायेणानिच्चा तेणक्खर अक्खरा चेव // 457 // AUCROESARKARSALARAK
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy