SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पंचम वैराग्यरसमञ्जरी ॥ ॥२०॥ गुच्छके सम्यक्त्वलिङ्ग वर्णनम् ॥ ततो निरयदुःखानि तिर्यग्दुःखानि सोढवान् । विषया दुःखदास्तस्मान् मार्जिता-पानवज्ज्वरे ।। ४१॥ विषयाः सुखदाश्चेत्स्यु-स्तीर्थकृच्चक्रवर्तिनः। उत्तिष्ठेरन् कथं त्यागे तेषां भूरिषु तेष्वपि ॥ ४२ ॥ विषयाशावशीभूता विप्रमुक्ताश्च तैरपि । परिभ्रमन्ति संसारे घोरे कण्डरिको यथा ॥४३॥ अलं तद्विषयरेतै-रद्य त्यक्ष्यामि श्वोऽथवा। यतात्त्विकं भवेन्नान्य-च्छम श्रीमोक्षशर्मणः ॥४४॥ अक्षयाक्लेशसंसिद्ध-मलज्जनीयमद्भुतम् । प्राशमिकं सुखं तस्मा-दप्यनन्तगुणं हि तत् ॥४५॥ अपरायत्तमौत्सुक्य-रहितं निष्पतिक्रियम् । सुखं स्वाभाविकं तत्र नित्यं भयविवर्जितम् ॥ ४६ ॥ " परमानन्दरूपं तद् गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याण-रूपत्वात् साम्प्रतं ह्यदः” ॥४७॥ तस्माद् महाव्रते मोक्ष-साधके येऽत्र सोद्यमाः । परार्थसाधका धन्याः साधवस्ते भुवस्तले ॥४८॥ निर्वाणदायकान् योगान् साधयन्तीति साधवः । समा वा सर्वभूतेषु ये स्युस्ते भावसाधवः ॥४९॥ रुद्धाश्रवास्तपोयुक्ता लग्नाः शुभक्रियासु ये । नीरागास्ते सदा धीराः साधवो भवनाशकाः ॥५०॥ कदा स दिवसो भावी गीतार्थगुरुहस्ततः । ग्रहीष्यामि सुचारित्रं विहरिष्यामि भावतः ॥५१॥ इन्द्रियार्थेषु संसक्तं धिर धिग् मां पापिनं च हा!। दारादिषु सदा रक्तं वस्तुतो वैरिकेषु हि ॥५२॥ एवं प्रवर्तमानोऽपि भावतो मोक्तुमिच्छति । विषयेभ्यो निजात्मानं स्वदोषज्ञो व्रतिप्रियः ॥५३॥ १ 'मार्जिता' शीखंड इति लोकभाषायाम् । R ॥२०॥
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy