________________
यथा वारांनिधौ क्षारे वस्तु क्षारत्वमाप्नुयात् । तद्वद्धि पतितं काये निर्मलं समलं भवेत् ॥२६०॥ स कायो हा कथं शुच्याः स्थानं भवति भावुक!। नवद्वाराणि यस्यात्र स्रवन्ति मलमुल्बणम् ॥ २६१॥ मांसशिरावसास्नायु-कीकस मलपूरिते । नारीणामीदृशे देहे भ्रान्तास्ते कवयोऽखिलाः ॥२६२॥ द्वाराणि द्वादशासां स्युर्षहन्ति मलमन्वहम् । ग्रामसारणितुल्यानि त्यक्त्वा मोहं व्रतं कुरु ॥२६३ ॥ सौरभ्यशालिनो भुक्ताः पदार्थाःक्षणमात्रतः। अशुचिभावतामापु-स्तं कायं को वदेच्छुचिम् ? ॥ २६४ ॥ अशुचिकायतो भो भोः शुचि धर्म समाचर । पङ्केरुहं यथा पङ्कं त्यक्त्वा निर्मलतां मजेत् ॥ २६५ ॥ अशुचिभावना जीव-मेवं धर्मशुचिप्रदा । बोधयेन्नैकयुक्तिभि-योजयेत् क्षणतः शिवम् ॥२६६ ॥ कासारो वारिमार्गः स्याजलप्राचुर्यधारकः। आश्रवौधैश्च जीवोऽयं कर्मराशि तथाऽऽप्नुयात् ।। २६७ ॥ कर्मराशिप्रभावेण दुःखं त्वं प्राप्स्यसे बहु । बन्धहेतून्समस्तान्तानिरुध्य कुरु पालिकाम् ॥२६८॥ पञ्चावतानि पञ्चैवेन्द्रियाणि च कषायकाः। चत्वारश्च त्रयो योगा इमे सप्तदशाश्रवाः ॥२६९॥ कायिक्यादिक्रियायुक्ता नेत्रयुगंमिता इमे | दूरीकार्यास्त्वया लोकेऽगणितदुःखदायकाः ॥२७॥ मैत्रीभावेन सर्वेषु गुणिषु च प्रमोदतः। माध्यस्थ्येनाविनीतेषु कृपया क्लेशितेषु च ॥२७१ ॥ मनसा वासितेनैव केचन पुण्यशालिनः । प्राप्नुवन्ति शुभं कर्म नेत्रयुगप्रकारकम् ॥ २७२ ॥ युग्मम् ॥ १-अस्थीत्यर्थः । २-४२।।