SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वैराग्यरसमञ्जरी ॥ चतुर्थगुच्छके ॥१५॥ EGACACAS | तत्त्वत्रयी वर्णनम् ॥ यदर्थ क्रियते पापं दैन्यमालम्ब्यते तथा । स देहोऽप्यननुगामी, तदन्यः को भविष्यति ॥ २४७ ॥ एकाकी निःसहायोऽत्र जीवोऽटति भवाटवौ । रूपैर्नानाविधैःकर्म-हतो दुःखी निरन्तरम् ॥ २४८ ॥ यथाऽऽगच्छति जीवोऽत्र कटीसूत्रेण वर्जितः। तथा गच्छति ह्येकाकी मुक्त्वा सर्व धनादिकम् ॥ २४९ ॥ अनाथो याति जीवो द्र-पुष्पाणीव स्वकर्मभिः। वायुभिर्दा हतो मुक्त्वा प्रियपुत्रधनादिकम् ॥ २५०॥ सर्वथा ते हि एकत्वभावना पाठदायिका ! । हावादिभावलग्नं ते चित्तं वारयति क्षणात् ॥ २५१ ॥ द्रव्यमन्यत् सुताद्यन्यद् योषितादि तथैव च । शरीरमपि तेऽन्यच्च सर्वमन्यद मतं जिनैः ॥ २५२॥ महाकुटुम्बयुक्तेषु गृहेषु तेषु ये जनाः। जाता मरणकाले तु नैव तैरनुजग्मिरे ॥२५३ ।। क्षणिक एव देहोऽत्र जीवस्तु शाश्वतो मतः । कर्मणा हि तयो-योगः किमन्यत्वमतः परम् ॥ २५४ ।। अन्यत्वभावनाऽऽदत्त-वासनावासिता नराः। न शोचन्ति प्रिये पुत्रे मृतेऽपि हि कदाचन ॥२५५ ॥ कः कस्य स्वजनो को वा परोऽप्यस्ति भवाम्बुधौ। मत्स्या इव भ्रमन्त्यत्र मिलन्ति यान्ति दूरतः॥ २५६ ॥ स्वकीयान स्वजनान् त्यक्त्वा त्यक्त्वा गृहादि वैभवम् । परलोकंच हा! यान्ति जीवाः पान्थिकदुःखिनः॥ यस्योदरे भवेच्छूलं सैव दुःखेन पीड्यते । तथान्यैश्च कृतं कर्म कदाप्यन्यैर्न भुज्यते ॥२५८॥ | धर्मवृद्धिकरो ह्येवं भावोऽन्यत्वमुदाहृतः। अनन्यत्वे हि मोहस्य स्पष्टा वृद्धिर्निगद्यते ॥२५९॥ १-हावो मुखविकारः स्याद् भावश्चित्तसमुद्भवः । विकारो नेत्रजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः ॥ SA ॥१५॥
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy