________________
चतुर्थ
वैराग्यरस-II मञ्जरी॥ ॥११॥
गुच्छके तत्त्वत्रयी वर्णनम् ॥
शरीरनगरीराज्येऽभिषिक्तो वीर्यभूपतिः। यावत्स राजते राजा तावत्सौख्यं निरन्तरम् ॥१३७॥ समर्थ सर्वथा भो भोः शीलं तद्रक्षणे मतम् । रक्षयित्वा ततः शीलं रक्षणीयः स भूपतिः ॥१३८ ॥ ये तु शीलात्परिभ्रष्टाः क्षयादिरोगधारिणः । दुःखिनः स्युरमुत्रात्र लोकदृष्ट्याप्यधस्कृताः ॥१३९॥ | हा! हा!क्षणिकसौख्यायलोकख्यात्या विपश्चितः। प्रत्यक्षंगर्दभायन्ते हत्वा स्वांकीर्तिमुज्वलाम्॥१४॥ अस्थिमांसवसाचर्म-पुञ्जे हा ! मूढमानसाः। पृथग्भूते घृणां कुर्युः संयुक्तेऽभिलषन्ति किम् ? ॥ १४१ ॥ नेमिनाथं च सर्वज्ञं जम्बू श्रेष्ठिसुदर्शनं । स्थूलभद्रं च योगीशं नत्वा शीलं प्रपद्यताम् ॥१४२॥ महत्त्वं मानवे प्राप्तं येन शीलं प्रपालितम् । श्वरासभादियोनिषु कुशीलं तु भवे भवे ॥१४३ ॥ नाना भवेषु भुक्तेषु सत्स्वपि न प्रजायते । भोगेषु येषु तृप्तिस्ते मा मोहीस्तेषु मानस! ॥१४४॥ पुनः पुनः पदार्थानां राशिदृष्टोऽत्र केनचित् । मायेन्द्रजालतो नष्टे तस्मिन् राशिन दृश्यते ॥१४५॥ | हावभावादिभिरेवं भुक्ता भोगाश्च लक्षशः। विद्यते सश्चयस्तेषां न च भोगान्तरे क्षणे ॥१४६॥ मोहमायामतो मुक्त्वा त्यक्त्वा विषयवासनाम् । शीलरत्नं महद्रत्नं रक्षणीयं प्रयत्नतः ॥१४७ ॥ तपः त्रिविष्टपे पूज्यं तपसाऽऽवर्जिताः सुराः। सर्वेपि किंकरायन्ते तत्तपो भो! विधीयताम् ॥ १४८ ॥ सप्तानां घातको योऽभूदर्जुनाह्वयमालिकः। तपसा सिद्धिमापत्स तत्तपो भो! विधीयताम् ॥ १४९ ॥ गोहत्यादिमहापापान मुक्तो दृढप्रहारिकः । घोरेण तपसा जात-स्तत्तपो भो! विधीयताम् ॥१५० ॥
॥११॥