________________
४
केषाश्चित्पुण्यहीनानां वेश्यादिषु व्ययो भवेत् । सुपात्रे भाग्ययुक्तानां स्वद्रव्यस्य व्ययो भवेत्॥ १२३ ॥ दु:खितदीनहीनेषु दरिद्रदुर्बलेषु यत् । दयाभावेन दीयेता-नुकम्पादानमुच्यते
॥१२४॥ मोक्षदाने भवेद्भव्य ! पात्रापात्रविचारणा । दयया दीयते यत्तु सर्वहन निषिध्यते ॥१२५ ॥ दोषदुष्टेऽपि जीवेsपि दयां कुर्युदयालवः । संहरेन्न निजां ज्योत्स्नां चन्द्रश्चण्डालवेश्मतः ॥१२६॥ क्षाराब्धौ वर्षणेऽप्यम्भो मुक्तात्वं भजते क्वचित् । सर्वेभ्यो ददतोऽप्येवं पात्रयोगः क्वचिद्भवेत्॥ १२७ ॥ दयाभावसमुत्पन्ने पात्रापात्रो न शोचति । देवदूष्यं महावीरो ददौ विप्राय दुःखिने ॥१२८ ॥ कुपात्रेऽपि सुपात्रोऽत्र दयां कुर्याद्विशेषतः। दशन्तं दंदशूकं किं बोधयामास न प्रभुः ॥१२९॥ दययाऽदायि किं नैव सूरिणार्यसुहस्तिना। रंकाय साधवो वेषो भोजनायोपकारिणा ॥१३०॥ दशा वित्तस्य तिस्रः स्यु-नभोगविपत्तयः। दानरूपा प्रधाना स्याद् यतो वे दुःखदायिके ॥ १३१॥ दानं देयं सति द्रव्ये सञ्चयो न सुखावहः । मक्षिकासञ्चितं पश्य हरन्ति पामरा मधु ॥१३२ ॥ विश्राणं सौख्यकारी स्यात् केवलं सञ्चयो नहि । भुक्तानां सञ्चये पश्य दशा भवति कीदृशी ? ॥ १३३ ॥ शीलं विघ्नहरं सर्व-सम्पदां दायकं मतम् । प्राणाधारं सुवृत्तस्य वंशशोभाविवर्धकम् ॥१३४ ॥ । ये शीलशीलिता लोके दुःखशल्यैर्न कीलिताः । सुप्राप्तशुभसंयोगा निरोगास्ते भवन्ति हि ॥ १३५ ॥ भूतव्यन्तरमुष्ट्यादि-प्रयोगा निष्फलाः समे। प्रयुक्ताः शीलयुक्तेषु शीलाद् दुःखं प्रणश्यति ॥ १३६ ॥