SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 5纷纷与纷纷纷纷纷纷纷纷纷纷纷纷纷纷纷纷纷沉沉峁纷频 मदात् । तन्निशम्य वचस्तस्य स कोपाटोपवानभूत् ॥ ४१३ ।। लक्षयोजनमानाङ्गो विष्णुवैक्रियलब्धितः । क्रमौ पूर्वापरोदध्योर्न्यस्य विश्वमकम्पयत् ॥ ४१४ ॥ तृतीयं नमुचेः पृष्टेऽ-निष्टं क्रममतिष्ठिपत् । क्षिप्तस्त्रिविक्रमेणेति रसातलं बली रिपुः ॥ ४१५ ॥ चलाचलाचला जज्ञे पर्वताश्च चकम्पिरे । समुद्रा मुक्तमर्यादा भयग्रस्ता ग्रहास्तदा ।। ४१६ ॥ इदं किमिति संभ्रान्ता - अभूवंस्त्रिदशा अपि । जातशङ्कोऽस्तशङ्कोऽपि शक्रस्तत्र क्षणेऽजनि ।। ४१७ || अवधिज्ञानतो ज्ञात्वा निमित्तं तत्र वासवः । गन्धर्वान् प्रहिणोद्विष्णु| कुमारस्योपशान्तये ॥ ४१८ ॥ शक्रनिर्दिष्टगन्धर्व - गीतैः शाम्यशमाऽमृतैः । विष्णुः प्रशान्तको पानि र्जज्ञेऽसीमशमोदधिः ॥ ४१९ ॥ | स्वभावस्थं तदा साधुं महापद्मोऽनमत्मुदा । तमुपालभ्य सूरीणां पादान्ते मुनिरागतः ॥ ४२० || आलोचितः प्रतिक्रान्तः पापं संघप्रभावनाम् । कृत्वा विशुद्धचारित्र - युक्तो विष्णुः शिवं गतः । ४३१ ॥ उपशान्ते तदोत्पाते पुनरुज्जीवितो जनः । संभूय भोजनाच्छादाऽ-लङ्काराद्युत्सवान्व्यधात् ॥ ४२२ ॥ प्रतिवर्ष ततो लोकः करोति प्रतिपद्दिने । वस्त्रान्नपानजोत्कार-गेहभूषादिकोत्सवान् | ॥ ४२३ ।। यो मुनीनामवज्ञाकृ - नररूपो मृगो हि सः । इति ख्यातीकृते राज्ञा कारितो गोहिसोऽभवत् ॥ ४२४ ॥ श्रीवर्ध माननिर्वाण - कल्याणकदिने नृपैः । दीपानां करणाल्लोके जज्ञे दीपोत्सवस्थितिः ॥ ४२५ ॥ चतुर्द्दश्याममावास्यां षोडशप्रहरावधिः । उपोष्य कोटिसहितं पूजयेत् श्रुतमष्टधा ॥ ४२६ ॥ पंचाशतं सहस्राणि परिवारं सगौतमम् । स्मृत्वा स्वर्णाम्बुजेऽखण्ड- दीपो १ - ते वेला अचल एवी पृथ्वी पण चलायमान थई । २ - जुहारसा । ३ - गोहिलो-ठाणनो गोह, जे साधुओनी निंदा करे छे, ते मनुष्य छतां पशुसमान ज छे, तेयुं सर्व स्थाने प्रसिद्धिमां लाववा माटे अने जणाववा माटे राजाए घेर घेर गोहिसो (गोवर्द्धन ) घरनी बाहेर कराग्यो, इजु पण मारवाड विगेरेमां छाणनो गोहिसो करवामां आवे छे। ४- अष्टधा- चंदन- धूप-दीप नैवेद्य-वस्त्र-कर्पूर-कुसुम-नाणकादि । HYAYAYA!
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy