________________
दीपालिका
तादृश्याऽसमया ऋद्ध्या पद्मः प्राप्तो निजे पुरे । पित्रा प्रवेशितोऽतुच्छ-घनोत्सवपुरस्सरम् ॥ ३९८ ॥ ततो भरतसाम्राज्याभिषेकं
सन्महोत्सवम् । महापद्मस्य राजानश्चक्रुः पद्मोत्तरादयः ॥ ३९९ ॥ साकं विष्णुकुमारेण नृपः पद्मोत्तरस्ततः । ॥ १९॥
सुव्रताचार्यपादान्ते प्रव्रज्य त्रिदिवं ययौ ॥४०॥ षष्टिशतानि ६००० वर्षाणि तपस्तीव्र वितन्वतः । जाता विष्णुकुमारस्य
लब्धयो वैक्रियादिकाः॥४०१॥ महापद्मनरेन्द्रेण तुंगशृंगैर्गतप्रमैः । प्रतिद्गं प्रतिग्रामं प्रासादैर्भूषिता मही ॥४०२॥ प्रौढप्रभाकवनापूर्व-स्वर्णरत्नमयै रथैः । जनन्याः पूरितस्तेन रथयात्रामनोरथः॥४०३ ॥ वरेण नमुची राज्यं ऋतुहेतोरयाचत । चक्री दत्वा
तदेतस्य खयमन्तःपुरे स्थितः ॥ ४०४ ॥ तदा वर्षाचतुर्मासा-भिग्रहा हस्तिनापुरे । परिवारयुतास्तस्थुः श्रीमत्सुव्रतसूरयः ॥४०५॥ निरीक्ष्य नमुचिः सूरीन् स्मरन् वैरं तदाऽवदत् । त्वां मुक्त्वा भक्तितः सर्वे लिङ्गिनो मामुपस्थिताः॥४०६ ॥स्थेयं न साधुभिस्तन्मे भूमौ सप्तदिनोपरि । स्थाता यस्तमहं हन्ता देयं भम न दूषणम् ॥ ४०७ ॥ प्रधानैः सचिवैः सोऽथ संघेन च बहुक्तिभिः। स्थित्यर्थं तत्र साधूनां मानितोऽपि न मन्यते ॥४०८ ॥ संघस्यानुज्ञया पेष्य साधू सुव्रतसूरयः। मेरुशृङ्गस्थितं विष्णु-कुमारं मुनिमाह्वयन् ॥ ४०९॥ गुर्वादेशेन स प्राप्तो ववन्दे स्वगुरून् मुदा । आकारणनिमित्तं तै-स्तस्याऽकथि यथातथम् ॥ ४१० ॥ ततो विष्णुकुमारोऽगा तदानीं नृपसंसदि । स नेमे नमुचिं मुक्त्वा निःशेषैरपि राजभिः॥ ४११॥ उवाच नमुचिं | विष्णुः पूरिताभिग्रहा नृप! । यास्यन्ति साधवः स्थित्यै कियन्तीं देहि तन्महीम् ॥ ४१२ ॥ ततस्तस्य नृपः पृथ्वी त्रिपदीप्रमिता
-समं विष्णुकुमारेण स्वयं पश्नोत्तरो नृपः । सुव्रताचार्यपादान्ते परिव्रज्य ययौ शिवम् ॥ इतिदीपालिकाकल्प, श्लो०-३५३ ॥ २ यज्ञने माटे कार्तिक पूर्णिमा सुधी। ३-चटूक्तिभिः। ४-हजु चोमासानो अभिग्रह पूर्ण थयो उथी ।