SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ दीपालिका | कल्पः / A FYRSALALALALALALALALALALALELSLSLSLSLSLSLELCLCLCLE अथ-कल्की-जन्म-पत्रिका-लिख्यते, ११ न यशोगृहे यशोदायाः कुक्षौ स्थित्वा त्रयोदशान् । मासान् मधोः सिताष्टम्यां जयश्रीवासरे निशि १२ > १० गु. के.८ ॥ २३३॥ षष्ठे मकरलग्नांशे वहमाने महीसुते । वारे कर्कस्थिते चन्द्रे चन्द्रयोगे शुभावहे ॥ २३४ ॥ प्रथमे पादेऽश्लेषायाः कल्किजन्म भविष्यति । त्रिहस्तोच्चः स कपिल-शीर्षकुन्तललोचनः ॥ २३५॥ त्रिभिर्विशेषकम् ॥ तीक्ष्णस्वरोऽदृष्टपृष्ठ-लाञ्छनश्छद्मतत्परः। महाविद्यो डुरो दीर्घ-हृदयो गुणवर्जियः ॥ २३६ ॥ जन्मतः पञ्चमे वर्षे जठरापद्भविष्यति । सप्तमेऽन्यापदस्सैका-दशे द्रव्यस्य सम्भवः ॥ २३७॥ तस्यैवष्टादशे वर्षे कार्तिके मासि निर्मले । पक्षे च प्रतिपद् घने शनौ चन्द्रे तुलास्थिते ॥ २३८ ॥ स्वातौ नन्दिदिने सिद्ध-वेलायां करणे बवे । मुहूर्ते रावणे राज्या-भिषेको हि भविष्यति ॥२३९॥ युग्मम् ॥ अदन्तस्तुरगस्तस्य कुन्तो दूर्वासकस्तथा । मृगाङ्कनाम किरीटं खङ्गश्च दैत्यसूदनः ॥२४०॥ तस्यांहिकटके चन्द्र-सूर्यो त्रैलोक्यसुंदरौ । चारुसौधं तथा भावि-द्रव्यसंख्या न भाविनी ॥ २४१ ॥ संवत्सरं विक्रमस्यो-स्थाप्य वर्णप्रदानतः। संवत्सरं स्वकीयं स स्थापयिष्यति भूतले ॥२४२॥ एकोनविंशवर्षेऽर्द्ध-भरतं विग्रहाकुलम् । दोर्दण्डमण्डलाक्रान्तं करिष्यति महाबलः ॥२४॥ सार्द्धविंशतमे वर्षेऽ-बुंदक्षितिभृतः सुतां । परिणीय बहुराज्ञीः विधाताज्ञां महीतले ॥ २४४॥ भुञ्जानस महाभोगान् तस्य पौढपराक्रमाः । चत्वारो दत्त-विजय-मुंजा-पराजिताः सुताः ॥ २४५ ॥ कल्किनः पाटलीपुत्रे राजधानी भविष्यति । तस्य 1-मङ्गले। २-पूर्वाहे । ३-वाससौधम् । ESHTHHEELESENSESSES ॥८॥ H
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy