________________
वृन्दं हि राजवत् ॥ ८५ ॥ मन्यूचे ग्रथिलीभूय स्थातव्यं ग्रहिलैः सह । प्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् ॥ ८६ ॥ कृत्रिमं ग्रहिलीभूय ततस्तौ राजमत्रिणौ । तेषां मध्ये ववृताते रक्षन्तौ निजसम्पदौ ॥ ८७ ॥ ततः सुसमये जाते शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् खस्था मूलप्रकृतिधारिणः ।। ८८ ।। एवं च दुष्पमाकाले गीतार्था लिङ्गिभिः सह । सदृशीभूय वर्त्स्यन्ति भाविसुसमयेच्छवः ॥ ८९ ॥ एवं खमफलं श्रुत्वा गृहवासे विरागवान् । स्वाम्यन्ते व्रतमादाय पुण्यपालो गतो दिवम् ॥ ९० ॥ श्रुत्वैवं विस्मितस्वान्तः स्वामिनं गौतमप्रभुः । भाविस्वरूपं पप्रच्छ केवलाssलोकभास्करम् ॥ ९१ ॥ स्वाम्याह मम निर्वाणा-पंचमारोऽत्र गौतम । एकोननवतिपक्षे - प्वतीतेषु ८९ लगिष्यति ।। ९२ ।। वर्षेर्द्वादशभिर्मुक्ति गौतमो मम निर्वृतेः । सुधर्माऽपि तथा गन्ता | शिवं विंशतिवत्सरैः ॥ ९३ ॥ तथा वर्षैश्चतुष्षष्ट्या जम्बूमुक्तिं गमिष्यति । भावी दशानामर्थानां विच्छेदोऽत्र ततो यथा ॥ ९४ ॥ आहारक- मनोज्ञाने- पुलाकः - परमावधिः । क्षपको - पशमश्रेण्यौ - केवलं संयमत्रिकम् ।। ९५ ।। सिद्धिगति - जिनकल्पो जम्बूनाम्ना समं तदा । सह विच्छेदमेष्यन्ति दुष्पमाद्धानुभावतः ॥ ९६ ॥ युग्मम् ॥ चतुर्दश पूर्वधारी तस्य पट्टे प्रभावकः । जम्बूप्रबोधितः शिष्यो भविता प्रभवप्रभुः ॥ ९७ ॥ सय्यं भवस्तु तत्पट्टे भविता द्वादशांगभृत् । दशवैकालिकोद्धारी यशोभद्रश्च पूर्वभृत् ॥ ९८ ॥ संभूतिभद्रबाहुच तच्छिष्यौ सर्वपूर्विणौ । निर्वृतेर्मम सप्तत्याधिके वर्षशते १७० गते ॥ ९९ ॥ भद्रबाहुर्वहुग्रन्थ - कर्ता स्वर्गं गमि व्यति । स्थूलभद्रोऽथ संभूते - विनेयः सर्वपूर्वभृत् ॥ १०० ॥ मोक्षतो मे पंचदशाधिके वर्षे शतद्वये २१५ । व्यतीते त्रिदिवं प्राप्ते स्थूलभद्रमुनीश्वरे ॥ १०१ ॥ प्राकू संहननसंस्थाने पूर्वार्थकथनं तथा । ध्यानं सूक्ष्मं महाप्राणं यास्यन्ति युगपत्क्षयम् ॥ १०२ ॥ युग्मम् ॥
१ - वृन्दाईराजवत् । २- सूक्ष्मसंपराय यथाख्यात- परिहारविशुद्धयः ।