SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ दी. क. १ ॥ श्री आत्म- कमल - लब्धि - लक्ष्मण-सूरीश्वरेभ्यो नमः ॥ - श्रुतस्थविराचार्यदेव - श्रीजिनसुंदरसूरीश्वर विरचितः -- प्र श्री दीपालिका - कल्पः 8888++ श्री वर्धमान माङ्गल्य-प्रदीपः पीवरद्युतिः । देयादतुल्यकल्याण-विलासं विपुलं सताम् ॥ १ ॥ श्री वर्धमानतीर्थेश - कल्याणक महोत्सवम् । वक्ष्ये दीपालिकाकल्पं पुण्यलक्ष्मीफलद्रुमम् ॥ २ ॥ स्वश्रिया स्वर्गजयिनी नान्नास्त्युज्जयिनी पुरी । 'संप्रतिभूपतिस्तत्र प्रतापतपनोपमः ॥ ३ ॥ तस्यामार्यसुहस्त्याह्वाः सूरयो गुणभूरयः । जीवतः खामिनो मूर्ति नन्तुं वीर विभो - र्गताः ॥ ४ ॥ जिनेशरथयात्रार्थ - मन्यदा तत्र सूरयः । सहानघेन संघेन प्रस्थिता राजवर्त्मनि ॥ ५ ॥ सूरीनालोक्य संजातजातिस्मृतिरिलापतिः । आगत्य संप्रतिर्नत्वा भक्त्या चेति व्यजिज्ञपत् ॥ ६ ॥ यूयं जानीथ मां पूज्या इत्युक्ते क्षितिपेन ते । वदन्ति स्म गुरूत्तंसाः कस्त्वां वेत्ति न संप्रते ! ॥ ७ ॥ पृच्छामि ज्ञानपारीणा ! विशेषेणोपलक्षणम् । इति राज्ञोदिते ज्ञात्वा श्रुतेन १–श्रेणिकपट्टे—–कोणिक, तत्पट्टे-उदाई, तत्पट्टे नवनंदाः, तत्पट्टे - चन्द्रगुप्तः, तत्पट्टे-बिन्दुसारः, तत्पट्टे-अशोकश्री, तरपट्टे - कुणाल-नंदनः संप्रति । २- सूरिभिः श्रुतोपयोगेन ज्ञात्वा चोक्तवान्, हे संप्रते ! पूर्वभवे सोपारके दुर्भिक्षे द्रमको रक्त इभ्यपुत्रः सप्त दिन- बुभुक्षितो मम शिष्याणां विविधां मिक्षां दीयमानां वीक्ष्य उपाश्रयद्वारे भिक्षां प्रार्थयन् वक्ति, महो गुरो ! सप्तदिनं यावत् बुभुक्षितोऽहम् । TRYAY
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy