SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ श्रीभग वा अणुदारतात एवायुर्वजसतानार्जानां पञ्चानामा लघुवृत्ती स्सर्वेऽप्युदीरकाः, सेसाणं चउण्हवि उदीरंगा वा अणुदीरगावति शेषाणां षण्णामपि यथासम्भवमुदीरका अनुदीरकाश्च,यतोऽयमुदीरणाविधिः प्रमत्तान्तः सामान्येनाष्टानां, आवलिकावशेषायुष्कास्तु त एवायुर्वर्जसप्तानामुदीरकाः, अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वर्जानां षण्णां, तथा सूक्ष्मसम्पराय आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुर्वर्जानां पञ्चानामपि, उपशान्तमोहास्तूक्तरूपाणां पञ्चानामेव, क्षीणकषायाः:पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव, सयोगिनोऽप्येतयोरेव, अयोगिनस्त्वनुदीरका एवेति, 'संचिट्ठणा जहण्णेणं एक समयंति कृतयुग्मकृतयुग्मसंज्ञिपश्चेन्द्रियाणां जघन्येनावस्थितिरेकं समय,. समयानन्तरं सयान्तरसद्भावान , उक्कोसेणं सागरोत्रमसयपुहुत्तं साइरेगं'ति यतः इतःपरं संज्ञिपश्चेन्द्रिया न स्युरेवेति ।। 'समुग्घाया.आइल्लग'त्ति संज्ञिपश्चेन्द्रियाणामाद्याः षडेव समुद्घाताः स्युः, सप्तमस्तु केवलिनामेव ते चानिन्द्रिया इति ॥ कृष्णलेश्याशते 'उकोसेणं तेत्तीसं.सागरोवमाइं. अंतोमुहुत्तमम्भहियाई' (सू.८६१) इदं कृष्णलेश्यामानं सप्तमपृथिव्या उत्कृष्टस्थिति प्राग्भवपर्यन्तवतिनं च कृष्णलेश्यापरिणाममाश्रित्येति, नीललेश्याशते 'उकोसेणं दस सागरोवमाइं पलिओवमस्स असंखेजभागमभहियाईति पञ्चमपृथिव्या उपरितनप्रस्तटे दशसागरोपमाणि पल्योपमासङ्ख्येयभागाधिकान्यायुः सम्भवति, नीललेश्या च तत्र स्याद् अत उक्तं- 'उकोसेण'मित्यादि, यच्चेह-प्राग्भवान्तिमान्तर्मुहूर्त तत्पल्योपमासङ्ख्येयभागे प्रविष्टमिति न भेदेनोक्तं, एवमत्यत्रापि 'तिसु उद्देसएसुत्ति प्रथमतृतीयपश्चमेष्विति, कापोतलेश्याशते 'उकोसेणं तिणि सागरोवमाई पलिओवमस्मति यदुक्तं तत्ततीयपृथिव्या उपरितनप्रस्तटास्थितिमाश्रित्येति, तेजोलेश्याशते 'दोसागरोवमाई'इत्यादि यदुक्तं तदीशानदेवमाश्रित्येति ज्ञेयं पद्मलेश्याशते. 'उकोसेणं. दस-सगारोबमाई' इत्यादि तु यदुक्तं तद् ब्रह्मलोकदेवायुराश्रित्य ज्ञेयं, तत्र हि.
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy