________________
श्रीभग० लघुवृत्तौ
मनुष्यनारकै ५ स्तिर्यग्ग्रारकदेवै ६ स्तिर्यग्मनुष्यदेवै ७ रिति त्रयस्त्रिकसंयोगाः, एकस्तु चतुष्कसंयोग ८ इति, एवं सव्वत्थ'त्ति सलेश्यादिपदेषु ९ दण्डकाः स्युः प्रागुक्तपापकर्मादिभेदेनेति ॥ २८ शते प्रथमः ॥
'अणंतरोववण्णगाणं'ति (सू. ८२०) द्वितीयः, तत्र च 'अणंतरेसु जे परिहरियव्वा ते जहा बंधिसए तहा इहंपि त्ति अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि 'परिहरियव्व' त्ति असम्भवान्न प्रष्टव्यानि तानि यथा बन्धिशते तथेहापीति, ननु : प्रथमभङ्गे सर्वे तिर्यग्भ्य उत्पन्नाः कथं भवन्ति, आनतादिदेवानां तीर्थकरादिमनुष्यशेषाणां च तेभ्य आगतानामनुत्पत्तेः एवं द्वितीयादिमङ्गेष्वपि भाव्यं सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचसा दर्शयिष्यामः, 'कम्मसमज्जिणणसयं' ति कर्मसमर्जनलक्षणार्थं वाच्यं शतं कर्मसमर्जनशतं । अष्टाविंशं शतं वृत्तितः सम्पूर्ण ॥
'समायं'ति (सू. ८२१) - समकं बहवो जीवाः, युगपदित्यर्थः, पडविंसु 'त्ति प्रस्थापितवन्तः - प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव 'निडविंसु 'ति निष्ठापितवन्तो निष्ठां नीतवन्त इत्येकः, तथा समकं प्रस्थापितवन्तो 'विसमं' ति विषमं यथा स्यात्, विषमतयेत्यर्थः, निष्ठापितवन्त इति द्वितीयः एवमन्यौ द्वौ, 'अत्येगइया समाज्या' इत्यादि चतुर्भङ्गी, तत्र 'समाउय'त्ति समायुषः, उदयापेक्षया समकालायुष्कोदया इत्यर्थः, 'समोववण्णग'त्ति विवक्षितायुषः क्षये समकमेव भवान्तरे उत्पन्नाः समोपपन्नकाः, ये चेदृशास्ते समकमेव प्रस्थापितवन्तः समकमेव च निष्ठापितवन्तः नन्वायुः कर्मैवाश्रित्येवमुपपन्नं स्यात् नतु पापं कर्मेति, तद्धि नायुष्कोदयापेक्षं प्रस्थाप्यते निष्ठाप्यते वा नैवं, यतो भवापेक्षः कर्मणामुदयः क्षयश्चेष्यते, उक्तं च- "उदयक्खय
CJCICLOC
२८. श० २९ श०