________________
श्रीभग० सिद्धिगमनायोग्यत्वादिति, 'सम्मामिच्छत्ते तइयचउत्थेत्ति मिश्रदृष्टेरायुषो बन्धाभावात् तृतीयचतुर्थावेव, भावितं चैतत्प्रालघुवृत्ती | गेव, 'सम्मत्ते'त्ति पञ्चेन्द्रियतिरश्चां सम्यक्त्वादिषु पञ्चसु द्वितीयवर्जा भङ्गाः स्युः, कथं, यदा सम्यग्दृष्टयादिः पञ्चेन्द्रियतिर्यङ्
आयुर्वनाति तदा देवेष्वेव, स च पुनरपि भंस्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौ तु प्रतीतातेव, चतुर्थः पुनरेवं-यदा मनुष्येषु | बद्धवायुरसौ सम्यक्त्वादि प्रतिपद्यते, अनन्तरं च प्राप्तव्यचरमभवस्तदेति, मणुस्साणं जहा जीवाणं ति, अथ विशेषमाह-'नवरं'ति | सम्यक्त्वसामान्य ज्ञानादिषु पञ्चसु पदेषु मनुया द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यसूत्रवद् ज्ञेया ॥२६ शते प्रथमः॥
प्रथमोद्देशे जीवादिद्वारकादशप्रतिबद्धैर्नवमिः पापकर्मादिप्रकरणैर्जीवादीनि पञ्चविंशतिर्जीवस्थानानि उक्तानि, द्वितीयेऽपि तथैव | तानि चतुर्विंशतिः उच्यन्ते,'अणंतरोववन्नएणं'ति (सू.८१५) इहाद्यावेव भङ्गो, अनन्तरोत्पन्ननारकस्य मोहलक्षणपापकर्माबन्धकत्वासम्भवात् , तद्धि सूक्ष्मसम्परायादिषु स्यात् , तानि च तस्य न सन्ति, 'सव्वत्थति लेश्यादिपदेषु, एतेषु सामान्यनारकादीनां सम्भवन्त्यपि यानि पदान्यनन्तरोत्पन्ननारकादीनामपर्याप्तत्वेन न सन्ति तानि तेषां न प्रष्टव्यानि इति दर्शयन्नाह-'नवरं ति, तत्रच सम्यग्मिथ्यात्वाद्युक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां तन्नास्तीति न प्रष्टव्यं, एवमुत्तरत्रापि, आ
युःकर्मदण्डके 'मणुस्साणं सव्वत्थ तइयचउत्थ'त्ति यतोऽनन्तरोत्पन्नो मनुष्यो नायुबध्नाति, भन्त्स्यति पुनः, चरमशरीरस्त्वसौ न नवनाति न भन्त्स्यतीति, 'कण्हपक्खिएसु तइओ'त्ति कृष्णपाक्षिकत्वेन भन्त्स्यतीत्येतस्य पदस्यासम्भवात् तृतीय एव, 'स
वेसिं नाणत्ताई ताई चेव'त्ति सर्वेषां नारकादिजीवानां यानि पापकर्मदण्डके उक्तानि नानात्वानि तान्येवायुदण्डकेऽपीति ॥ २६ शते द्वितीयः॥