________________
श्रीभग० लघुवृत्तौ
मभवाभावात् तृतीयस्तु स्यात्, चतुर्थोऽपि नोक्तयुक्तरेवेति, 'सम्मामिच्छत्ते तइयचउत्थ' त्ति मिश्रदृष्टेरायुषो बन्धाभावात् । असुरकुमारदण्डके 'कण्हले से चत्तारि भंग'ति नारकदण्डके कृष्णलेश्यनारकस्य प्रथमतृतीयायुक्तावसुरकुमारस्य तु कृष्णलेश्यस्यापि चत्वार एव तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति, पृथ्वीकायसूत्रे 'कण्हपक्खिए पढमतइयभंग' त्ति इह युक्तिः प्राग्वद्भाव्या, तेजोलेश्यापदे तृतीयो भङ्गः, कथं १, कश्चिद्देवस्तेजोलेश्यः पृथ्वीकायेषूत्नः, स पर्याप्तावस्थायां तेजोलेश्याद्धायां चापगतायामायुर्वभाति, तस्मात्तेजोलेश्यः पृथ्वीकाय आयुर्बद्धवान् देवत्वे न बध्नाति तेजोलेश्यावस्थायां भन्त्स्यति तस्यामपगतायामित्येवं तृतीयः, 'एवं आउकाइयवणस्सइकाइयाणवि 'त्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयभङ्गी तेजोलेश्यायां च तृतीयभङ्गसम्भवः, 'तेउकाइए 'त्ति तेजस्कायिकवायुकायिकानां सर्वत्र, एकादशखपि स्थानकेष्वित्यर्थः, प्रथमतृतीयभङ्गौ स्यातां तत उद्वृत्तानामनन्तरं मनुष्येष्वनुत्पच्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवात् मनुष्येष्वनुत्पत्तिश्चैतेषां - सत्तममहिने रइया तेऊ वाऊ असंखनरतिरिया । मुत्तूण सेसजीवा उपअंति य नरभवंमि ॥ १ ॥” इति वचनादिति, 'बंदिए 'त्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गौ, यतस्तत उद्वृत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गौ तदपवादमाह - नवरं सम्मत्ति सम्यक्त्वे ज्ञाने आभिनिबोधिके श्रुते च विकलेन्द्रियाणां तृतीय एव, यतस्सम्यक्त्वादीनि तेषां साखादनभावेनापर्याप्तकावस्थायामेव, तेषु चापगतेष्वायुषो बन्ध इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यवस्थायां न बध्नन्ति तदनन्तरं च भन्त्स्यतीति तृतीयः, 'पंचेंदियतिरिक्खे'त्यादि, पञ्चेन्द्रियतिरक्षां कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिको हि आयुर्बद्ध्वाऽबद्ध्वा वा तदबन्धकोऽनन्तरमेव न स्यात्, तस्य
LOLOLOLOL:06JOG JOLJOEG
२६ श०
|१ उद्देशः
॥२८७॥