________________
श्रीभग० लघुवृत्ती
जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहूत्तैः संवेधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तर्मुहूत्तैः पूर्वकोटीमिश्च | संवेधः, नवमगमे 'नवरं परिमाण मिति तत्र परिमाणं उत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहस्रमानेति । अथ मनुष्येभ्यस्तमुत्पादयन्नाह-लद्धी से तिमुवि गमएसुत्ति लब्धिः परिमाणादिका से तस्यासंज्ञिनरस्यायेषु त्रिष्वपि गमेषु, यतो नवानां गमानां मध्ये आधा एव त्रयो गमाः सम्भवन्ति, जघन्यतोऽप्यूत्कर्षतोऽपि चान्तर्मुहूर्तस्थितिकत्वात् तस्येति, | 'एत्थ चेव'त्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशके असंज्ञिपश्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे 'नो संखेजवासाउएहिंतो'त्ति असङ्ख्यातवर्षायुषो नरा देवेष्वेवोत्पद्यन्ते, न तिर्यविति, 'लद्धी सेति लब्धिः परिमाणादिप्राप्तिः 'से' तस्य असंज्ञिमनुष्यस्य यथैतस्यैव संज्ञिनरस्य पृथ्वीकार्यवृत्पद्यमानस्य प्रथमे उक्ता, सा चैवं-परिमाणतो जघन्येनैको द्वौ वा उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते, स्वभावतोऽपि सङ्ख्यातत्वात् संज्ञिनराणां, तथा ६ संहननिनः उत्कर्षतः ५०० धनुरवगाहनाः ६ संस्थानिनः ६ लेश्याः त्रिविधदृष्टयः भजनया चतुर्ज्ञानास्यज्ञानाश्च त्रियोगाः द्वथुपयोगाः चतुःसंज्ञाः चतुष्कषायाः पञ्चेन्द्रियाः ६ समुद्|घाताः सातासातवेदनास्त्रिविधवेदाः जघन्येनान्तर्मुहूर्तायुषः, उत्कर्षेण पूर्वकोट्यायुषः अप्रशस्ताध्यवसानाः स्थितिसमानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्येन द्वौ भवौ उत्कर्षेण त्वष्टौ भवाः, कालादेशेन तु लिखित एवास्ते १, द्वितीयगमे 'सच्चेव वत्तब्वय'त्ति प्रथमगमोक्ता, केवलमिह संवेधः कालादेशेन जघन्यतो द्वे अन्तर्मुहर्ते उत्कर्षतः ४ पूर्वकोटयश्चतुरन्तर्मुहूर्त्ताधिकाः, तृतीयेऽप्येवं, नवरं 'ओगाहणा जहण्णेगं'ति अनेनेदमवसितं-अङ्गुलपृथक्त्वाद्धीनतरवपुर्नरो नोत्कृष्टायुष्केषु तिर्यसूत्पद्यते, तथा 'मासपुहुत्तं'ति अनेनापि मासपृथक्त्वाद्धीनतरायुष्को नरो नोत्कृष्टस्थितिषु तिर्यक्षुत्पद्यते इत्युक्तं, 'जहा सपिणपश्चेन्दियतिरिक्खजोणिय
தனயாயை பாாயேயபபயா நாயாயாயாயாயார்