SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ पञ्च विकल्पाः सम्भवन्ति, एकादीनामसङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः, असङ्ख्यातेष्वपि च ज्ञानिनः षट्टानि व्यवस्थापयन्ति, एकेन्द्रियाणां त्वसङ्ख्यातानामेव प्रवेशनात् षद्वैः समर्जिताः, तथा पटुनटुन च समर्जिताः इति विकल्पद्वयस्यैव सम्भव:, अत एवाह - 'पुढविकाइयाणं' ति एषामल्पबहुत्वचिन्तायां नारकादयः स्तोकाः आद्याः, पटुस्थानस्यैकत्वात्, द्वितीयास्तु सङ्ख्यातगुणाः, नोषट्स्थानानां बहुत्वात् एवं तृतीयचतुर्थपञ्चमेषु स्थानबाहुल्यात् सूत्रोक्तं बहुन्वमवसेयमित्येके, अन्ये तु वस्तुस्वभावादिति, एवं १२ सूत्राणि चेति ॥ २० शते दशमः ॥ भगवतीलघुवृत्तौ वृत्तितो विंशतितमं शतं सम्पूर्णम् ॥ ✦✦✦✦✦✦ अथैकविंशतितममारभ्यते - 'साली' त्यादि, (*८७) शाल्यादिधान्यविशेषरूपोद्देशकदशकात्मको वर्गः १ शालिरेत्रोच्यते, एवमन्यत्रापि, उद्देशकदशकं चैवम्-मूले १ कंदे २ खंधे ३, तया य ४ साले ५ पवाल ६ पत्ते य ७ पुप्फे य ८ फले ९ बीए १० तेsविय एकेकए होइ || २ ||" 'उद्देसे' त्ति १ 'कल'त्ति कलायादिधान्यविषयः २ 'अयसि 'त्ति अतसीप्रभृतिधान्यविषयः ३ 'वंसे 'त्ति वंशादिपर्वग विशेषविषयः ४ 'इक्खु 'त्ति इक्ष्वादिपर्वग विशेषविषयः ५ दिग्भ'ति दर्भशब्दोपलक्षणत्वात् 'सेडियमंति|यकोत्तियदन्ने' इत्यादिगुणभेदविषयः ६ 'अज्झवरोह'त्ति वृते समुत्पन्नो विजातीयो वृक्षविशेषोऽभ्यवरोहकः तत्प्रभृतिशाकप्रायवनस्पतिविषयः ७ 'तुलसी'ति तुलसीप्रभृतिवनस्पतिविषयः ८, एतेऽष्टौ वर्गाः, दशानामुद्देशकानां वर्गाः समुदाया दशवर्गाः, सर्वेऽशीतिः पुनरुद्देशकाः स्युरिति, वर्गे २ उद्देशकदशकभावादिति । तत्र प्रथमवर्गस्तत्र प्रथमोदेशक उच्यते - 'रायगिधे' इत्यादि, (सू. ६८९) 'जहा वर्कतीए' ति यथा प्रज्ञापना ६ पदे, तत्र चैवमुत्पादो-नो नारकेभ्य उत्पद्यन्ते, किन्तु तिर्यग्मनुष्येभ्यः, तथा २१ श० ॥२५३॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy