SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीभग सेढी य । विजया दह सलिलाओ य पिंडए होइ संगहणी ॥१॥" तत्र 'जोइसविहणं ति जम्बूदीपप्रज्ञायां ज्योतिष्कवक्तव्यता-ule शतके लघुवृत्तोऽस्ति तद्विहीनं समस्तजम्बूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य स्वयं ज्ञेयं, किंपर्यवसानं पुनस्तद्?, आह 'जाव खंड'त्ति । तत्र जम्बूद्वीपे TE१ उद्देशः भरतक्षेत्रप्रमाणानि खण्डानि कियन्ति स्युरिति, उच्यते-नवत्यधिकं खण्डशतं, 'जोयण'त्ति जम्बूद्वीपे कियद्योजनप्रमाणानि खण्डानि स्युरिति, उच्यन्ते-'सत्तेव य कोडिसया चउया छप्पन्न सयसहस्साई । चउणउई च सहस्सा सयं दिवई च साहीयं ॥१॥ गाउयमेगं पण्णरस धणुसया तह धणूणि पण्णरस । सट्ठीई अंगुलाई जंबुद्दीवस्स गणियपयं ॥२॥ति," गणितपदमेवंप्रकारस्य गणि-| तस्य संज्ञा, 'वास'त्ति जम्बूद्वीपे भरतहैमवतादीनि सप्त वर्षाणि, पव्वय'त्ति जम्बूद्वीपे कियन्तः पर्वताः?, उच्यते, षट् वर्षधरपर्वता हिमवदादयः एको मन्दरः, एकश्चित्रकूटः एको विचित्रकूटः एतौ देवकुरुषु, द्वौ यमकगिरी एतौ च उत्तरकुरुषु, द्वे शते काश्चनकानां, एते च शीताशीतोदयोः पार्श्वतः, २० वक्षस्काराः, ३४ दीर्घविजया पर्यन्ताः, चत्वारो वर्तुलविजया पर्वताः, एवं २६९ मिताः पर्वता भवन्ति, कूड'त्ति कियन्ति पर्वतकूटानि ?, उच्यते, ५६ वर्षधरकूटानि ९६ वक्षस्कारकूटानि ३.६ विजया कूटशतानि ९ मन्दरकूटानि, एवं सर्वाणि ४६७ कूटानि स्युरिति, 'तित्थति जम्बूद्वीपे कियन्ति तीर्थानि ?, उच्यते, ३२ विजयभरतैरावतानां ३४ खण्डेषु प्रत्येकं मागधवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि स्युः, एवं द्वयुत्तरं तीर्थशतं भवति, सेढीओ'त्ति | विद्याधरश्रेणय आभियोगिकश्रेणयश्च कियत्यः?, उच्यते, अष्टपष्टिः प्रत्येकमासां स्यात् , विजया पर्वतेषु प्रत्येकं द्वयोर्द्वयोर्भावाद , एवं षट्त्रिंशदधिकं श्रेणीशतं स्यात् , 'विजय'ति कियन्ति चक्रवर्तिविजेतव्यानि भूखण्डानि ?, उच्यते, ते चतुस्त्रिंशद्, एतावन्त ॥१५२७. एव च राजधान्यादयोऽर्था इति, 'दहत्ति कियन्तो महाद्रहाः १, उच्यन्ते, पद्मादयः षट् दश च नीलवदादयः देवकुरुउत्तरकुरुम
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy