SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ Madividohindi ८ शतके ९ उद्देशः मन्तरं भविष्यतीति, एवं देसबंधंतरंपि'त्ति अस्य भावना प्रागुक्तानुसारेणेति,रत्नप्रभासूत्रे 'सर्वबंधंतरंति एतद् भाव्यते-रत्नप्रभा| नारको १० वर्षसहस्रस्थितिकः उत्पत्तौ सर्वबन्धकः तत उद्धृत्तस्तु गर्भजपञ्चेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायामुत्पन्नः, पुनः तत्र प्रथमसमये सर्वबन्धक इत्युक्तं जघन्यमन्तरं सर्वबन्धयोरिति, अयं यदापि प्रथमोत्पत्तौ विग्रहेण त्रिसमयेनैवोत्पद्यते तदापि न दशवर्षसहस्राणि त्रिसमयन्यूनानि स्युः, अन्तर्मुहूर्त्तमध्यात् समयत्रयस्य तत्र क्षेपात् , न च तत्प्रक्षेपेऽप्यन्तर्मुहूर्त्तत्वव्याघातः, तस्यानेकभेदत्वादिति, उक्को० वणस्सइकालोत्ति, कथं ?,रत्नप्रभानारक उत्पत्तौ सर्वबन्धकः, तत उद्धृत्तश्चानन्तकालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पद्यमानस्सर्वबन्धक इत्युत्कृष्टमन्तरमिति, 'देसबंधं० जह० अंतोमुहुत्तं'ति, कथं ?, रत्नप्रभानारको देशबन्धकः सन् ततोऽन्तर्मुहूर्त्तायुः पञ्चेन्द्रियतिर्यक्तया उत्पद्य मृत्वा च रत्नप्रभानारकतयोत्पन्नस्तत्र द्वितीयसमये देशबन्धकः,एवं जघन्य देशबन्धान्तरमिति । 'उक्कोसेणं'ति इत्यादि भावना प्रागुक्तानुसारेणेति । 'एवं जाव'त्ति यावत्करणात् द्वितीयादिपृथिवीषु च जघन्या स्थितिः क्रमेणैकं त्रीणि सप्त दश सप्तदश द्वाविंशतिःस्त्रयस्त्रिंशच]सागरोपमाणीति, 'जहा वाउकाइयाण'ति जघन्यतोऽन्तर्मुहूर्त| मुत्कृष्टतः पुनरनन्तकालमिति । असुरकुमारादयस्तु सहस्रारान्तदेवा उत्पत्तिसमये सर्वबन्धं कृत्वा खां जघन्यस्थितिमनुपाल्य पञ्चेन्द्रियतिर्यक्षु जघन्येनान्तर्मुहूर्त्तायुष्कत्वेनोत्पद्य मृत्वा च तेष्वेव सर्वबन्धका जाताः, एवं तेषां वैक्रियस्य जघन्यं सर्वबन्धान्तरं जघन्या तस्थितिरन्तर्मुहर्त्ताधिका वाच्या, उत्कृष्टत्वेऽनन्तं कालं यथा रत्नप्रभानारकाणां, इत्येतदाह-असुरकुमारे त्यादि, तत्र जघन्या स्थितिरसुरकुमारादीनां व्यन्तराणां च १० वर्षसहस्राणि ज्योतिष्काणां च पल्योपमाष्टभागः, सौधर्मादिषु तु 'पलिय अहियं दो | सार साहिया सत्त दस य चोइस य'इत्यादि, आणयदेवत्ते'त्ति सूत्रे 'सव्वबंधंतरंति एतद्भावना-आनतकल्पीयो देव उत्पत्ती ni WINMDMIMOMIN DOINDImamHD HINDIHINnDi
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy