________________
श्रीभग० लघुवृत्तौ
गुण'ति कायादिप्रयोगपरिणतेभ्यः सकाशात् मिश्रकपरिणता अनन्तगुणाः, यतः प्रयोगकृतमाकारमपरित्यजन्तो विश्रसया ये परिणामान्तरमुपागता मुक्तकलेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिणतास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणयोग्यानामप्यनन्तत्वादिति ॥ अष्टमशते प्रथमोद्देशकविवरणम् ॥
'आसीविस'त्ति (सू. ३१५ ) आशीविषा - दंष्ट्राविषाः, 'जाइआसी'ति जात्या - जन्मना आशीविषाः, 'कम्मआसी'ति कर्मणा-क्रियया शापादिनोपघातकरणेनाशीविषाः कर्माशीविषाः, तत्र पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च कर्माशीविषाः, पर्याप्तका एव, एते हि तपश्चरणानुष्ठानतो ऽन्यतो वा गुणतः खल्वाशीविषाः स्युः, शापप्रदानेनैव व्यापादयन्तीत्यर्थः, एते चाशीविषलब्धिस्वभावाः सहस्रारान्तदेवेष्वेवोत्पद्यते, देवास्त्वेत एव ये देवत्वेनोत्पन्नाः ते पर्याप्तकावस्थायामनुभूतभावतया कर्माशीविषाः, उक्तं च भाष्यकारेण - "आसी दाढा तग्गय महाविसाऽऽसीविसा भवे दुविहा । ते कम्मजाइएण योगहा चउविहविगप्पा ||१||"" के वइए विसएत्ति कियान् विषयो- गोचरो, विषस्येति गम्यं, 'अद्भभरह'त्ति अर्द्धभरतस्य यत् प्रमाणं सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा - प्रमाणं यस्यां सा तथा 'बोंदि'त्ति तनुं विषेण निजाशीप्रभवेन 'विसपरि'त्ति विषपरिगतां 'विसहमाणिन्ति विकसन्तीं 'करित्तए' कर्तुं, 'विसट्टयाए'त्ति विषमेवार्थो विषार्थस्तद्भावस्तत्ता तया विषार्थतया, विषत्वस्य तस्यां वा, 'नो चेव' त्ति नैवेत्यर्थः, 'संपत्तीए' सम्पच्या एवंविधवोन्दिसम्प्राप्तिद्वारेण, 'करेंलु'त्ति अकार्डः, वृथिका इति गम्यते, 'समयखेत्तं' ति समयक्षेत्रं 'एवं जहा वेउध्वियसरीरस्स भेदोत्ति यथा वैक्रियं भणता जीवभेदो भणितः तथेहापि वाच्योऽसावित्यर्थः, स चायं - गोयमा ! नो संमुच्छिमपंचिंदियतिरिक्खजोणिय कम्मासीविसे गन्भवकंतियपंचिंदियतिरिक्खासीविसे, जइ गव्भ
WE WERDEN DINONEW MOON IMAGEANIN
८ शतके
२ उद्दे०
॥११७॥