________________
श्रीभग लघुवृत्तौ
एतद्विषया एषणा पिण्डविशुद्धिस्तया शुद्धं 'असुरसुरं अचवचव' मिति द्वावेतावनुकरणशब्दौ अदुयं अद्भुतं अविलम्बितं - नाति - | मन्दं 'अपरिसाडिति अनवयवोज्झनं 'अक्खोवंजण'त्ति अक्षोपाञ्जनं शकटधूम्रक्षणं व्रणानुलेपनं च व्रणौषधं च अक्षोपाञ्जनव्रणानुलेपने ते इव विवक्षितार्थसिद्धेः रसादिनिरभिष्वंगतया अक्षोपाञ्जनत्रणानुलेपन भूतोऽस्तं, 'संयमजायं' ति संयमयात्रा - संय मानुपालनं सैव मात्रा - आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थं वृत्तिः - प्रवृत्तिर्यत्राहारे स संयमयात्रामात्रावृत्तिकस्तं, संयमभारवहनार्थितायै इति ॥ सप्तमशते प्रथम उद्देशकः ॥
'पच्चक्खायं’ति (नू. २७०) सर्वेभ्यः सच्चादिभ्यश्चतुर्भ्यः प्रत्याख्यातं - प्रत्याख्यानं कृतं मयेति वदतस्तस्य नरस्य 'सुपच'त्ति सुप्रत्याख्यातमिति सुष्ठु प्रत्याख्यानं कृतं स्यात्, नो-नैव दुष्प्रत्याख्यातमिति, 'सिय सुप्पचक्खायं' सिय दुष्पचक्खायं इति प्रतिपाद्य यत् प्रथमं दुष्प्रत्याख्यातत्ववर्णनं कृतं तद्यथासङ्ख्यन्यायत्यागेन यथासन्नतान्यायमङ्गीकृत्येत्ति द्रष्टव्यं 'णो एवं अभिसम'त्ति नो-नैव ' एवं 'ति वक्ष्यमाणप्रकारेण अभिसमन्वागतं - अवगतं स्यात्, 'नो सुप्पच्चक्वायं' ति ज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यातत्वाभावः, 'तिविहं तिविहेणं' ति त्रिविधं कृतकारितानुमतिभेदभिनं योगमाश्रित्य त्रिविधेन-मनोवाक्कायलक्षणेन करणेन, 'असंजय'त्ति संयतो - धादिपरिहारप्रयतः विरतो - वधादेर्निवृत्तः प्रतिहतानि - अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानि च - अनागतप्रत्याख्यानेन पापकर्माणि येन स तथा संयतादिपदानां कर्म्मधारयः, ततस्तन्निषेधादसंयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, 'सकिरिए'त्ति कायिक्यादिक्रियः, 'असंबुडि 'त्ति असंवृताश्रवद्वारः, 'एगंत दंडे 'त्ति एकान्तेन सर्वथा परान् दण्डयति यस्स एकान्तदण्डः, एकान्तबालः, सर्वथा बालिशः, अज्ञ इत्यर्थः, 'मूलगुणे' ति (सू. २७१) प्राणा
७ शतके २ उद्देशः
॥१०३॥