________________
के
श्रीभगलघुवृत्ती
4.
एषैव व्याख्या सुखावबोधार्थ विस्तरतो विवियते, तत्रादौ गाथाद्वयमाह-"चउवीस बारसऽ? य दुवालसंसा उ जोयणस्सुहूं । सक्को वजं चमरो तिण्णिवि गच्छंति समकालं ॥१॥ तिरियऽद्वारस दस सोलसेव अह बारसऽढ चउवीसा । जहसंखं तेण हरी बजं पाविसु नो चमरं ॥२॥" देवेन्द्रसूरिभिरिमे माथे कृते, एतत्स्थापना चेयम् । एवं गतिविषयं क्षेत्रमानमनेकविधं, तस्स मध्ये कतरो गतिविषयः कतरस्माद् गतिविषयादल्पादिरिति प्रश्नः, उत्तरं तु सर्वस्तोकमधःक्षेत्रं समयेन शक्रोऽवपतति, यतः-त्रिभिर्भागैर्गव्यूतं । चिन्तितमत्रास्ति, तेन चतुर्भिस्त्रिकैदशेति वचसा त्रिभागरूपगव्यतचतुष्केण योजनं स्यात् , ततोऽधः शक्रो मन्दगतित्वात् योजन | यातीत्यर्थः, इत्यधो द्वादशभागैर्योजन, ततश्च योजने द्विधा कृते द्वौ भागौ स्यातामिति, कथं, द्वादशभागरूपं योजनमधीक्रियते, | अतस्त्रिभागद्वयरूपाः षड् भागाः स्युरित्येवं द्वौ षड्पौ भागौ जातो, तयोश्चकस्मिन् द्विभागे मीलिते त्रयस्सङ्ख्येया भागाः स्युरिति, कथं ?, तयोः षड्पयोर्भागयोरेकस्मिन् द्विभागत्रिभागरूपगव्यूतद्वयरूपे तृतीयषड्भागे मीलिते सति जातास्वयः षड्भागा इति प्रागुक्तद्वादशभागरूपयोजनोपरित्रिभागरूपं गव्यूतद्वयं यदि चिन्त्यते तदा तिर्यग्गतौ तस्य शीघ्रगतित्वात् जातं पभागाधिक योजनं, भागाश्चैवं जाता अष्टादश, तैर्जातं गव्यूतद्वयाधिकं योजनं, सार्द्ध योजनमित्यर्थः, तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते ते |चत्वारो द्विभागरूपाः सङ्ख्यातभागाः सम्भवंतीति, कथं ?, तेषु प्रागुक्ताष्टादशभागेषु चतुर्थेऽन्यसिन् द्विभागे त्रिभागरूपगव्यूतद्वयरूपे चतुर्थषड्भागे च मीलिते सति जाते द्वे योजने, भागाश्चैवं चतुर्विशतयः, अतस्तानूवं शीघ्रगतित्वाच्छको व्रजेत् , जाते ऊर्च द्वे योजने इत्यर्थः, एवं शक्रस्याधस्तिर्यगूर्ध्वगतित्रयमानं प्रोक्तं । 'चमरस्स गति ऊवं चमरस्त्रिभागन्यूनं गव्यूतत्रयमिति, | कोऽर्थः ?, प्रागुक्तत्रिभागरूपगव्यूतद्वयं तृतीयगव्यूतस्य द्वौ भागौ च, एवं जाते द्वे गव्यूते त्रिभागरूपगव्यूतद्वयद्विभागाधिके ग. २१
DINDIHI HOLDHOHINO CID MisOmelion sDHWADIHappinior
SIMITERATION