________________
श्रीभग लघुवृत्ती
३ शतके २ उद्देशः
सर्वस्तोकमधःक्षेत्रं समयेनावपतति, अधोमन्दगतित्वाच्छक्रस, 'तिरियं संबजेत्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने द्विधाकृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्ख्येयभागाः स्युः, अतस्तान् तिर्यग्गच्छति, सार्द्ध योजनमिति भावः, तिर्यग्गतौ तस्य शीघ्रगतित्वात् , 'उन्हें संखज'त्ति यान् कल्पनयात्री द्विभागान् तिर्यग्गच्छेत् तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपास्सङ्ख्यातभागास्सम्भवन्ति, अतस्तानू गच्छति, अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रहणे सति इदं नियतभागव्याख्यानं क्रियते?, उच्यते-"जावइयं खित्तं चमरे अहे ओवयइ एकेणं समएणं तं सक्के दोहिं," तथा "सक्कस्स य उप्पयणकाले चमरस्स य ओवयणकाले एएणं दोण्णिवि तुल्ला" इति वचनान्निश्चीयते-शको यावदधो द्वाभ्यां समयाभ्यां व्रजेत् तावदृर्ष एकेनेति द्विगुणमधःक्षेत्रादुल क्षेत्रं, एतयोश्चापान्तरालवर्ति तिर्यक्षेत्रं सार्द्ध योजनं स्यादिति व्याख्यातं, आह. चूर्णिकारः-“एगेणं समएणं ओवयइ अहे जोयणं, एगेणेव समएणं तिरियं दिवद्धं गच्छइ, उद्धं दो जोयणाई सको"त्ति 'चमरस्सण' मिति 'सव्वत्थोचंति ऊर्ध्वगतौ मन्दगतित्वात् तस्य, तच कल्पनया किल त्रिभागन्यूनं गव्यूतत्रयं, | 'तिरियं ति तस्मिन्नेव पूर्वोक्ते त्रिभागन्यूने गव्यूतत्रये द्विगुणिते ये योजनसङ्ख्येयभागाः स्युः तान् व्रजेत् , तिर्यग्गतौ शीघ्रतरगतित्वात् तस्य, अहे संखेज्जेत्ति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषट्के त्रिभागन्यूनगव्युतत्रये मीलिते ये सङ्ख्येयभागास्तान् व्रजेत् , योजनद्वयमिति भावः, अथ कथं सङ्ख्येयभागमात्रोपादाने नियतसङ्ख्येयभागत्वं व्याख्यायते ?, उच्यते, शक्रस्योर्ध्वगतेश्चमरस्याधोगतेः समत्वमुक्तं, शक्रस्य समयेनकेन योजनद्वयमूर्ध्वगमनं चमरस्याधस्तथैव, 'जावइयं सक्के ३ उर्दू उप्पयइ एगेणं समएणं तं बजे दोहिं, जं वजे दोहिं तं चमरे तीहिंति वचनात् प्रतीयते-शक्रस्य यदूर्ध्वगमनक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्यो -