SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीभग सूत्रम् | पदद्वयमर्थतः स्पष्टयन्नाह-'ऊससंति नीससंति वत्ति, यदेवोक्तमानमंति तदेवोक्तमुच्छ्वसंति यदेवोक्तं प्राणंति तदेव निःश्वसन्ति, १ शतके 'जहाऊसासपए'त्ति एतत् प्रश्नोत्तरं प्रज्ञापनासप्तमपदे यथा तथा वाच्यं, तच्चेदं गोयमा ! सययं संतयामेव आणमंति वा पाणम०१ उद्देशः उस० नीस.' 'सययंति-सततं निरन्तरमेव 'संतयामेवत्ति नैकसमयेऽपि तद्विरहोऽस्तीतिभावः २ । अथ तेषामाहारं प्रश्नयनाह-'आहारहित्ति आहारमर्थयन्ते-प्रार्थयन्ते इत्येवंशीलाः आहारार्थिनः 'जहा पन्नवणाए'त्ति यथा प्रज्ञापनायाः आहार| पदस्याष्टाविंशतितमस्योदेशकः, पदशब्दलोपात , प्रथमे आहारोद्देशक तथा वाच्यो, नैरयिकाणां स्थित्यादिद्वारगाथामाह-'ठिति उस्सासाहार'त्ति स्थित्युच्छ्वासावुक्तावेव "आहार'त्ति आहारविधिर्वाच्यः, स चैवं-नेरइयाणं भंते ! केवइकालस्स आहारहे समुप्पजइ ?, आहारार्थः-आहारप्रयोजनम् , गोयमा! नेरइयाणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगणिव्यत्तिए अंणाभोग|णिव्वत्तिए, आभोगनिर्वर्तितः-आहारयामीतीच्छापूर्वकनिष्पन्नः, अनाभोगस्त्वेवमाहारयामीतीच्छामन्तरेण, प्रावृट्काले प्रचुरतरप्रश्रवणाद्यभिव्यङ्गथशीतपुद्गलाहारवत् , तत्थ णं जे से अणाभोगणिव्व० से णं अणुसमयमविरहिए आहारहे समुप्पजइ, अनुसमयंप्रतिक्षणं अविरहितं (प्रति) समय क्षुद्वेदनीयकर्मोदयत ओजाहारादिना प्रकारेण, तत्थ णं जे आभोगणिव्वत्तिए से णं असंखेजसमइए अंतोमुहुत्तिए आहारठे समुप्पज्जइ, आहारयामीत्यभिलाष एषामसंख्यसामयिकान्तर्मुहूर्तान्निर्वर्तितः ४। 'किंवाहारेंतित्ति किंखरूपं | वा वस्तु नारका आहारयन्ति, गोयमा! दव्वओ अणंतपएसियाई-अनन्तप्रदेशवन्ति पुद्गलद्रव्याणि, तदन्येषामयोग्यत्वात् , खेत्तओ असंखेजपएसावगाढाई-असंख्यातप्रदेशावगाढानि, तन्न्युनतरप्रदेशावगाढानि तु तेषां न ग्रहणप्रायोग्यानि, अनन्तप्रदेशावगाढानि तु न भवन्त्येव, सकललोकस्याप्यसंख्येयप्रदेशपरिमाणत्वात् , कालओ अण्णतरहिइयाई-जघन्यमध्यमोत्कृष्टस्थितिकानि, स्थितिश्चा Mul॥४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy