________________
RRRRRRRR
साधूनां ससधा चैत्यवन्दना प्रत्यहं मता । पञ्चधा ससधा वाऽसौ त्रिधा वा गृहमेधिनः ॥ ९८ ॥ शिवपदसुखामिलाषा शीघ्रं यद्यस्ति मानसे भवताम् । तदा जिनेश्वरी भक्तिर्विधेया विधिना द्विधा ॥ ९९ ॥ यतःएकमपि येन कुसुमं भगवत्यपि युज्यते सबहुमानम् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥१॥
हे विश्वनाथ ! जनयत्यवनीरहाणां शाखावलम्बि कुसुमं फलमेकमेव ।
चित्रं विलूनमपि तावकपादपने भक्त्या समर्पितमनेकफलानि सूते ॥२॥ तत्पुण्योदयतः प्राता मयाऽमू राज्यसंपदः । अमूभ्यां जगदानन्दिरूपाभ्यां सह सांप्रतम् ॥ १०॥ गरीयोद्रव्यभक्तेः स्याद्भावभक्तिर्वरीयसी । अन्तर्मुहूर्तमात्रेण यया मुक्तिर्भवेन्नृणाम् ॥ १.१॥ यतः
पूजा कोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः। जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः॥१॥ | इत्यादिदेशनां श्रुत्वा राजर्षेस्तस्य सादरम् । जगाम खपदं वजी तं प्रणम्य पुनः पुनः ॥१०२॥ श्रीमान् विजय राजर्षि श्चिरं भव्यजनावलीः । प्रबोध्य सकलत्रोऽगात् क्रमान्निवृति वेश्मनि ॥१.३॥ एवं जैनेश्वरीभक्तिकृत्येषु चाखिलेष्वपि । कुमारहेमवदुर्वी क्लिष्टकर्मविघातिनी ॥ १०४ ॥ अथ___ अष्टादशविधं शीलं सर्वधर्मस्य जीवितम् । दिव्यौदारिककामानां वर्जनेनोदितं जिनैः ॥१॥ दानादप्यधिकं शील जन्तोरोन्नत्यहेतवे । सर्वाषध्वंसने सारं भेषजं निवृतिपदम् ॥२॥ यतः
* -OSTINKOSKAAK 43044***