________________
भवतो गुणैः । किमप्यवाच्यमस्तीत्युदीर्य विद्यां पपाठ च ॥ ४६ ॥ मयाऽपि विस्मृतं विद्यापदं तस्मै निवेदितम् । ततो विद्यापदप्राप्त्या प्रमोदी खेचरोऽवदत् ॥ ४७ ॥ हन्नेत्रस्य यथा नेत्रे लूनपक्षस्य पक्षिणः । यथैव ददता पक्षौ तथा विद्यापदं त्वया ॥ ४८ ॥ उपकारोऽधिकोऽकारि जीवितव्यादपि स्फुटम् । अतस्त्वमसि सर्वेषां मौलिरलं निजैर्गुणैः ॥ ४९ ॥ किञ्चिदानृण्यमाधातुं परं प्रत्युपकारतः । सार्थवाह ! समीहेऽहं निष्कृत्रिमहत्तम ! ॥ ५० ॥ लक्ष्मीदेवतया दत्तं सरोजं जगदद्भुतम् । एतद्गृहाण सर्वाङ्गसौख्यकारि सुगन्धभृत् ॥ ५१ ॥ इत्युक्त्वैतन्ममाम्भोजं | दत्त्वाऽगात् खेचरेश्वरः । अहमप्यागमं क्षेमात् क्रमेणात्र पुरे प्रभो ! ॥ ५२ ॥ प्रत्यक्षो देवता भूमानित्यालोच्य निजे | हृदि । तदिदं प्राभृतीचक्रे मया भक्त्या तवाधुना ॥ ५३ ॥ राजाऽपि कमलं प्राप्य जगदानन्दिसौरभम् । प्रीतस्वान्तः परं मानं सार्थनाथस्य निर्ममे ॥ ५४ ॥ नरेन्द्रपरिषत्सर्वा तत्कसौरभ्यसंपदा । सर्वाङ्गसुरभीभूता प्रमोदं विस्मिता दधौ ॥ ५५ ॥ नृपोऽपि पद्ममादाय प्राभृतं सुकृतोदयात् । श्रेष्ठिने जिनचन्द्राय ददौ प्राणप्रियाय तत् ॥ ५६ ॥ सोऽपि दध्यौ नृपात्प्राप्य कमलं कमलालयम् । सम्यक्त्वमिव दुष्प्रापं सहस्रदलमण्डितम् ॥ ५७ ॥ स्वस्यासारशरीरस्य सारवस्तुविनाशनम् । भोगेन तीत्रदुष्कर्मबन्धाय केवलं भवेत् ॥ ५८ ॥ पुत्रादीनामिदं दत्तं कामोन्मादाय जायते । पित्रोरप्यर्पितं भक्त्या न भवेत्प्रेत्य शर्मणि ॥ ५९ ॥ कलत्रं कृत्रिम स्नेहपात्रं पापनिबन्धनम् । | सुखार्थ स्वीकृतमपि प्रायो दुःखदमायतौ ॥ ६० ॥ कदाचित्पुण्ययोगेन कुलीनं हृदयङ्गमम् । भवेत्सुखावहं पुंसो ध्रुव