SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ ३४ ॥ ततः प्रतिष्ठा तस्यासीद्धर्वी सद्गुणशालिनः । पुरे पौरजनप्रष्ठे साधुवादात्समर्पिता ॥ ३१ ॥ स एव पुरुषो विद्वांस्त्र| लोक्यास्तिलकायते । खगुणान् परदोषांश्च यो न वक्ति विनीतहृत् ॥ ३२ ॥ रत्नावलिभृतखर्णस्थालोपरि निवेशितम् । अन्यदा कनकाम्भोजं सहस्रदलमण्डितम् ॥ ३३ ॥ स्फुरत्परिमला भोगसुरभीकृतपूर्जनम् । सर्वाङ्गसौख्यकृत् क्रूरषण्मासोत्पन्न रोगहृत् ॥ ३४ ॥ अजितञ्जयभूजानेर्दूर देशान्तरागतः । गुणसागरसार्थेशः प्रणम्य प्राभृतं व्यधात् ॥ ३५ ॥ त्रिभिर्विशेषकम् ॥ कमलं विमलं वीक्ष्य क्षितिभृद्भुवनाद्भुतम् । आचख्यौ सुरभीभूतः सार्थनाथं सविस्मयः ॥ ३६ ॥ आजन्मावीक्षितं साक्षाज्जगदानन्दसौरभम् । ईदृक् पद्मं कुतः सार्थपते ! प्राप्तं सुदुर्लभम् ॥ ३७ ॥ स स्माह वसुधाधीशं धनकोटीरनेकशः । अर्जयित्वा निजं स्थानं प्रत्यागच्छन्नहं विभो ! ॥ ३८ ॥ एकस्मिन् कानने | विद्याधरमेकं महाप्रभम् । कुर्वाणं तरसा व्योनि पतनोत्पतनक्रियाम् ॥ ३९ ॥ सर्वाङ्गसुन्दराकारमहमद्राक्षमुत्तमम् । तत्तः समीपे तस्यागामप्राक्षं च सविस्मयः ॥ ४० ॥ कुतो विद्याधरस्वामिनेयं त्वं कुरुषेऽधुना । उत्पत्योत्पत्य गगने पृथिव्यां पतनं पुनः ॥ ४१ ॥ तमूचेऽसौ महाभागा विस्मृतं मम सांप्रतम् । नभोगमनविद्यायाः पदमेकं प्रमादतः ॥ ४२ ॥ तेार्धनभर्स प्राप्तः पुनः पश्चात्पताम्यहम् । बिना समग्रसामग्रीं कार्यसिद्धिर्भवेन्नहि ॥ ४३ ॥ ततस्तमाह सार्थेशः श्रूयतां खेचरेश्वर ! 1 पदानुसारिणी प्रज्ञा ममास्ति सुकृतोदयात् ॥ ४४ ॥ ततो योग्याऽस्ति चेद्विद्या तदा यं वद क्रोविद ! | यथास्थितां पठाम्येतां यचाद्धं भवतः पुरः ॥ ४५ ॥ सोऽप्यवय् मां महाभागा ! तन्नात्र सप्तमः परिच्छेदः ॥ ३४ ॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy