________________
कोऽयं कल्पद्रुमाकार उदारप्रकृतिः पुमान् । सोऽवक खामिन् ! सुतो मेऽसौ गृहाश्रमतरोः फलम् ॥ १८ ॥ ततस्तदङ्गसौन्दर्य सुधामाधुर्यजित्वरम् । न प्रापन्नृपतिस्तृप्तिं पिबन्नेत्रपुटैश्विरम् ॥ १९॥ जिनदत्तं ततः माह भूपतिः प्रीणिताशयः । भो श्रेष्ठिन् ! भवता तावद्भवतापार्तिशान्तये ॥२०॥ श्रीसर्वज्ञोदितो धर्मः कर्तव्यः स्थिरचेतसा। अलङ्करोत्वयं सूनुः संसदं मे महाशयः ॥ २१ ॥ इयदिनानि भोः श्रेष्ठिन् ! कथं दृष्टिपथं मम । नानीतोऽयं विनीतात्मा पुत्रः सुत्रामसंनिमः ॥२२॥ श्रेष्ठी स्याह महाराज! भवदर्शनयोग्यताम् । सूनुरेष विशेषज्ञः शिश्रिये सांप्रतं विभो ! ॥ २३ ॥ यतः
विजिताक्षो विनीतात्मा विवेकी सत्यवाक शुचिः। पुमान् राजसमायोग्यो भवेदौचित्यवाक्पतिः ॥१॥ इष्टं वैद्योपदिष्टं च मन्वानो नृपतेर्वचः। ततः श्रेष्ठी नृपं नत्वा ससुतो गृहमाययौ ॥ २४ ॥ ततः श्रेष्ठी त्रिधा शुद्धं साधुवद्धर्ममन्वहम् । कुर्व निर्मलतां प्रापत् परां दुष्कर्मसंक्षयात् ॥ २५ ॥ यतः-यथौचित्यक्रियाशाली राजकार्यधुरन्धरः। सत्यवाग् जिनचन्द्रस्तु राजपूज्यः प्रियंवदः ॥ २६ ॥ मुक्तमानः सेवमानः सपरिच्छदमन्वहम् । राजानं रजयामास निर्मलैरपि सद्गुणैः ॥ २७ ॥ प्रत्यहं प्राभृतं किञ्चिद्यथाहं खकरागतम् । पितेव प्रीतिमान् भूमान् जिनचन्द्राय यच्छति ॥ २८ ॥ सत्पुष्पफलशृङ्गारवस्त्रादि पृथिवीपतेः । प्राप्तं सद्वस्तु दत्तेऽसौ भक्त्या पित्रोः कदाचन ॥ २९ ॥ कदाचिदहते विश्वखामिने गुरवे तथा। कदाचिद्राजपूज्येभ्यः सदौचित्यसुरद्रुमः ॥ ३०॥ युग्मम् ॥
KASAMACARSAGACANCE