SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ १३ ॥ 1 । दकसंपदम् । पितेव पालयामास खप्रजा इव यः प्रजाः ॥ २ ॥ तत्रासीन्नृपतिः प्रीतिपात्रं सत्पात्रपोषकः । महेभ्यो जिनदत्ताख्यः ख्यातः संख्यातिगश्रिया ॥ ३ ॥ यो वेत्ता सततत्त्वानां सप्तक्षेत्रधनव्ययी । जिनेन्द्रशासनोद्योतसप्तसप्तिप्रभोऽभवत् ॥ ४ ॥ तस्य सूनुरनून श्रीर्जिनचन्द्रोऽभवत् कृती । कुर्वन् कुवलयोल्लासं सद्वृत्तोदयसंपदा ॥ ५ ॥ योऽजनि वजनानन्दी विवेकी राजहंसवत् । भानुवत्कमलोल्लासी वेश्मोद्योतीव दीपवत् ॥ ६ ॥ पुण्यलावण्य- भवने ग्रौवने सकलाः कलाः । असौ गुरुप्रसादेन कलयामास लीलया ॥ ७ ॥ रत्नमौक्तिकमाणिक्यप्रमुखानेकवस्तुषु दक्षोऽजनि परीक्षायां विशेषाद्धमवर्त्मनि ॥८॥ कन्यां समानसौन्दर्यवयोरूपकलाद्भुताम् । ततोऽसौ जनकादेशात्पाणौ चक्रे गुणश्रियम् ॥ ९ ॥ द्विधाऽपि सकलत्रत्वं पुत्रं सुत्रामसंपदम् । प्रेक्ष्य वेश्माश्रमाधारं श्रेष्टी दध्यौ स्वयं हृदि । ॥ १० ॥ अर्जिताः संपदः सौबपुण्यपुण्यानुसारतः । आसादि नृपतेर्मानं निदानं निर्वृतेः परम् ॥ ११ ॥ पोषिता खजनश्रेणिर्निज श्रीसंविभागतः । दीनानाथादयो लोकाः प्रीणिता उपकारतः ॥ १२ ॥ आराधितो यथाशक्ति साकारः श्रावकोचितः । द्वादशत्रतरूपोऽर्हत्प्रोक्तो धर्मः शिवावहः ॥ १३ ॥ अतो निवेश्य भूपालसौहृदं तनुजन्मनि । जिनचन्द्राभिधे सर्वधर्मकर्मक्षमाशये ॥ १४ ॥ मया निराश्रवो धर्मनिधारम्भविवर्जनात् । विधेयो विधिना शुद्धः सद्यः सिद्धिसुखप्रदः ॥ १५॥ युग्मम् ॥ इत्यालोच्य सुधीः श्रेष्ठी सुतं तं श्रेष्ठवासरे। सहादाय गतो राजसभं भूप नमोऽकरोत् ॥ १६ ॥ विस्मेरकनकाम्भोजजित्वरद्युतिसंगतम् । पीत्वा नेत्रपुटैः रूपं तस्याख्यत् श्रेष्ठिनं नृपः ॥ १७॥ सप्तमः परिच्छेदः ॥ ३३ ॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy