SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पूर्वकम् । समहं स व्यधाद् यात्रां विद्यासिद्धवचः स्मरन् ॥ ६७ ॥ एवमईन्मतप्रोकपुण्यकार्यप्रवृत्तितः । श्रियं कृतार्थयामास स सप्तक्षेत्रपोषकः ॥ ६८ ॥ संवेगरसशीतात्मा कषायविषयासवान् । विहायावश्यक सेवाहेवाकी समभूदसौ ॥ ६९ ॥ पापस्थानान्यशेषाणि व्युत्सृज्य समतोदधिः । प्रान्तेऽनशनमाराध्य देवभूयं जगाम सः ॥ ७० ॥ भवान्तरे सुरेन्द्र श्रीसंनिभा राज्यसंपदः । स प्राप्य परमानन्दपदखामी भविष्यति ॥ ७१ ॥ एवं विनयसंशुद्धो धर्मः सम्यक्त्वपूर्वकः । पूर्वापरविपर्यासमुक्तो प्राशो विवेकिना ॥ ७२ ॥ असर्वज्ञोदितैः शास्त्रैः प्रणीते धर्मवर्त्मनि । अविचारं रमन्ते ये ते प्रायो मूढबुद्धयः ॥ ७३ ॥ यतः बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु सुधीः परीक्षते सर्वयत्वेन ॥ १ ॥ अग्निर्देवो जलं तीर्थ वधे धर्मो गुरुगृही । गौर्नमस्या द्विकाः पात्रं येषां तैः कोऽस्तु संस्तवः ॥ २ ॥ यथा तथा निशम्यात्र यः करोत्यपरीक्षितम् । वेश्येव शोचते पश्चात्कीरविप्रेण वञ्चिता ॥ ७४ ॥ यतः— नैवापरीक्ष्य कर्तव्यं कर्तव्यं सुपरीक्षितम् । कः संदेह इति प्रोक्ते वञ्चिता कुट्टिनी यथा ॥ १ ॥ यस्मिन् सर्वेषु जीवेषु निर्व्याजं करुणा स्मृता । पञ्चेन्द्रियजयः सम्यक्कषायाणां च वर्जनम् ॥ ७५ ॥ सर्वजन्तुहितं
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy