________________
1-
54KHASIRISHWA+K***
॥५॥इतो निर्व्याजविनवप्रधानः श्रीजिनोदितः। जात्यरत्युतं वर्णमिवीन्नसविधायकः ॥६॥ कुलजातिगुणलाप्यं प्राणिनामुचितः स्फुटम् । धनमित्रसेव धर्मोऽयं सर्वसंपत्फलो भवेत् ॥ ७॥ युग्मम् ॥ तयाहि
दूरीकृतप्रकम्पायां चम्पायां खश्रिया पुरिआसीनामा च धानाच जितारिः पृथिवीपतिः॥१॥ श्रीदत्तस्तत्र सत्पात्रप्रदत्तश्रीर्वणिग्वरः । अभूत्सुदत्ता च तद्भार्या सुशीलोदात्तमानसा ॥२॥ सम्यक्त्ववासितखान्तौ द्वादशव्रतभूषितौ। अभूतां तो पुरे ख्यातौ तत्र सत्पुण्यकर्ममिः॥३॥ धनमित्रस्तयोः पुत्रः पवित्रः प्राप्तयौवनः। कलासु कुशलः कन्यामुपयेमे धनश्रियम् ॥४॥जनकेन सहान्येधुर्विनोदेन स जग्मिवान् । युगन्धरगुरोः पार्थे शुश्रावेति च देशनाम् ॥५॥ __बन्धूनां च धने स्वयं बलिभुजः पोषं परेषामहो ! वस्तुज्ञानविशेषवांश्च नकुलः स्यात्कुम्मकृत्कुर्कुटः । भक्तिव्यक्तिमियति मर्तरि बकस्त्रीसारमेयस्तथा सम्यग्धर्मकलाकलापकुशला मर्ये मनुष्या यदि ॥ ६ ॥ देवाः सदा विषयशर्मसमुद्रममा दुःखार्तितसमनसः किल नारकाच । सम्यग्विवेकविकलाः पशवो विशुद्धधर्मेककौतुकभृतो मनुजा अमी स्युः ॥७॥ सम्यक्परीक्षया शुद्धो गृहीतव्यो मनीषिणा । धर्मोऽयं हेमवन्मुक्तिशर्मणः कारणं परम् ॥८॥ यतः
यथा चतुर्भिः कनक परीक्ष्यते निघर्षणच्छेदनतापताडनैः।
तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥१॥ आगमेन च युक्त्या च योऽर्थः समभिगम्यते । परीक्ष्य हेमवद्वासः पक्षपातप्रहेण किम् ॥९॥ सत्यं पिता कृपा
44-59
ऊस