SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्वीकारपरिहाराभ्यामिह धर्मो द्विधोदितः । स्वीकारः सेवना तत्र यथोक्तशुभकर्मणाम् ॥ १ ॥ निषिद्धानामना|| सेवापरिहारः कुकर्मणाम् । तयोश्चायं विशेषज्ञैर्ज्ञेयः श्रेष्ठः शिवप्रदः ॥ २ ॥ यथा शास्त्रे महाव्याधिप्रतिकारो द्विधोच्यते । भेषजासेवयाऽपश्यंपरित्यागेन रोगहृत् ॥ ३ ॥ अपथ्यासेविनो नैव भेषजासेवनैरपि । कदाऽपि स्यागुणस्तस्मात्पथ्यसेवा वरीयसी ॥ ४ ॥ यदुक्तम् औषधेन विना व्याधिः पथ्यादेव निवर्तते । न तु पथ्यविहीनस्य मेषजानां शतैरपि ॥ १ ॥ तथैवासेवनं धर्मरसस्याघविवर्जनम् । आरोग्यद्विजवत्कर्ममयामयहरं भवेत् ॥ १ ॥ आसीदुज्जयिनीपुर्या धर्मनामा पुरोहितः । तस्याङ्गजो गज इव प्रस्फूर्जत्कलभान्वितः ॥ २ ॥ बालकालादपि प्रस्तो रोगैर्भोगसुखापहः । असआतगुणो वैद्यचिकित्साभिरनेकशः ॥ ३ ॥ ततो रोग इति ख्यातो मानुदत्ता भिधोऽप्यसौ । भोगादेव क्षयो यस्माद्द्रढबद्धस्य कर्मणः ॥ ४ ॥ सुसाधुसन्निधौ प्राप्तोऽन्यदाऽसौ यौवनागमे । सुश्राव देशनामेवं पीयूषासारशीतलाम् ॥ ५ ॥ यथा सदौषधाद् योगभावनाभावितं भवेत् । सम्यग्रसायनं हेम भवेत्सर्वामयापहम् ॥ ६ ॥ तथा सत्कार्यसंयोगभावनाभावितः किल । सम्यगाराधितो धर्मः सर्वकर्मामयापहः ॥ ७ ॥ सुराज्यं संपदो भोगाः कुले जन्म सुरूपता । सौभाग्यमायुरारोग्यं धर्मकल्पतरोः फलम् ॥ ८ ॥ भवन्ति देहिनो देहे रुजो दुष्कर्मयोगतः । सम्यग्धर्मानुभावेन तत्क्षयो जायते जयात् ॥ ९ ॥ यतः
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy